________________
षोडशं ब्रह्मचर्यसमाधिस्थानाख्यमध्ययनम् १६ ]
[२५७ 'इत्थीण' मिति स्त्रीणां 'कूइयसई' सम्भोगसमये - भोक्तुर्मनःप्रसत्तये कोकिलादिविहगशब्दानुरूपं कूजितशब्दं, पुनः स्त्रीणांरुदितशब्दम् भोगसमये प्रेमकलहजनितं रोदनशब्दं वा, अथवा पुनर्गीतशब्दं वा, पञ्चमरागादिहुंकाररूपं गीतशब्दं वा, अथवा पुनः स्त्रीणां हसितशब्दं कहकहादिकहास्योत्पादिकाट्टादृदन्तनिष्कासनोद्भवशब्दम्, स्तनितशब्दं वा, भोगसमये दूरतरघनगर्जनानुकारिशब्दं वा, क्रन्दितशब्दं वा, प्रोषितभर्तृकाणां-विरहिणीनां भर्तृवियोगदुःखाज्जातम्, वाथवा विलपितशब्दं भर्तृगुणान् स्मारं स्मारं प्रलापरूपं शब्दं प्रति यः श्रोता न भवति स निर्ग्रन्थो भवति । इति श्रुत्वा शिष्यः पृच्छति तत्कथं - केन कारणेन ? यदेवमुच्यते, इति श्रुत्वा आचार्य आह-हे शिष्य ! खलु निश्चयेन कुड्यान्तरादिषु पूर्वोक्तस्थाने स्थित्वा स्त्रीणां पूर्वोक्तान् कूजितादिशब्दान् श्रृण्वतो निर्ग्रन्थस्य ब्रह्मचारिणोऽपि ब्रह्मचर्ये शङ्का वा काङ्क्षा वेत्यादयो दोषा उत्पद्यन्ते । तस्मात्कारणात् खलु -निश्चयेन निर्ग्रन्थः कुड्यांतरेषु स्थित्वा स्त्रीणां कूजितादिशब्दं नो श्रृण्वन् विचरेत् । स्त्रीणां हि कामोद्दीपकशब्दश्रोता साधुर्न भवेदिति भावः । इति पञ्चम ब्रह्मचर्यसमाधिस्थानम् । एषा पञ्चमी वाटिका ॥५॥
अथ षष्ठी प्राह
नो निग्गंथे इत्थिणं पुव्वरयं पुव्वकीलिअंअणुसरित्ता हवइ, से निग्गंथे। तं कहमिति चेत् आयरियाह-निग्गंथस्स खलु इत्थीणं पुव्वरयं पुव्वकीलियं अणुसरेमाणस्स बंभयारिस्स बंभचेरे संका वा कंखा वा वितिगिच्छा वा समुप्पज्जिज्जा, भेयं वा लभेज्जा, उम्मायं वा पाउणिज्जा, दीहकालियं वा रोगायंकं हवेज्जा, केवलिपन्नत्ताओ वा धम्माओ भंसिज्जा, तम्हा खलु नो निग्गंथे इत्थीणं पुव्वरयं पुव्वकीलियं अणुसरिज्जा ॥६॥ ___स निर्ग्रन्थो भवेत्, यः पूर्वं गृहस्थत्वे स्त्र्यादिभिः सह रतं - कामासनैमैथुनसेवनम्, पुनस्ताभिरेव समं पूर्वक्रीडितं - गृहस्थावस्थायां पुरो द्यूतादिक्रीडनं कृतम्, तस्यानुस्मर्ता मुहुर्चिन्तयिता नो भवेत् स साधुर्भवेदित्युक्ते शिष्यः प्राह-तत्कथमिति चेत्तदाह-हे शिष्य ! खलु निश्चयेन स्त्रीभिः सह पूर्वकृतं रतं - मैथुनम्, पूर्वकृतं द्यूतादिक्रीडितमनुस्मरतो - वारंवारचिन्तयतो निर्ग्रन्थस्य साधोर्ब्रह्मचारिणो ब्रह्मचर्ये शङ्कादयो दोषा उत्पद्यन्ते । तस्मात् खलु निश्चयेन निर्ग्रन्थः स्त्रीभिः सहपूर्वरतं-पूर्वक्रीडितं प्रत्यनुस्मर्ता न भवेत्, ससाधुर्भवेत्॥६॥ इति षष्ठं ब्रह्मचर्यसमाधिस्थानम् ॥ इति षष्ठी वाटिका ॥६॥
___ अथ सप्तमी प्राह_____नो निग्गंथे पणीयं आहारं आहारित्ता हवइ, से निग्गंथे, तं कहमिति चेत् आयरियाह-निग्गंथस्स खलु पणियपाणभोयणं आहारेमाणस्स बंभयारिस्स बंभचेरे संका वा कंखा वा वितिगिच्छा वा समुप्पज्जिज्जा,