SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ २५६] [उत्तराध्ययनसूत्रे उम्मायं वा पाउणिज्जा, दीहकालीयं वा रोगायंकं हविज्जा, केवलिपण्णत्ताओ धम्माओ भंसिज्जा, तम्हा खलु नो निग्गंथे इत्थीणं इंदियाइं मणोहराई मणोरमाई आलोइज्जा निज्झाइज्जा ॥४॥ स निर्ग्रन्थो भवति, स इति कः ? यः स्त्रीणां मनोहराणि, मनोहरन्ति दृष्टमात्राणि चित्तमाक्षिपन्तीति मनोहराणि, पुनर्मनोरमाणि मनो रमन्त्यनुचिन्त्यमानान्याह्लादयन्तीति मनोरमाणि, ईदृशानीन्द्रियाणि नयनवदनजघनवक्षःस्थलनाभिकक्षादीनि प्रत्यालोकयित्वा समन्ताद् दृष्ट्वा निध्याता, नितरां ध्याता निध्याता, दर्शनादनन्तरमतिशयेन चिन्तयिता यो न भवेत् स निर्ग्रन्थो भवति । इत्युक्ते शिष्यः पृच्छति, तत्कथमिति चेदाचार्य आह-हे शिष्य ! निर्ग्रन्थस्य खलु निश्चयेन स्त्रीणां पूर्वोक्तानीन्द्रियाण्यासमन्ताद्विलोकयतः, अथवा ईषदपि लोकयतः पश्यतो नितरां ध्यायमानस्यात्यन्तं चिन्तयतः, स्त्रीणामिन्द्रियेषु दृष्टि लगयित्वा स्थितस्य ब्रह्मचारिणो ब्रह्मचर्य शङ्कादयो दोषा उत्पद्यन्ते । तस्मात् 'खलु' निश्चयेन निर्ग्रन्थः स्त्रीणां मनोहराणि मनोरमाणीन्द्रियाणि नालोकयिता न समन्ताद् दृष्टा, अथवा नेषदपि दृष्टा, नचतानीन्द्रियाणि निध्याता - नितरां चिन्तयिता भवेत् । स्त्रीन्द्रियाणां रागेण दृष्टा नितरां ध्याता साधुर्न भवेदित्यर्थः॥४॥इदं चतुर्थं ब्रह्मचर्यसमाधिस्थानम् ।। एषा चतुर्थी वाटिका ४। अथ पञ्चमी प्राह नो निग्गंथे इत्थीणं कुटुंतरंसि वा, दूसंतरंसि वा, भित्तिंतरंसि वा, कूईयसई वा रूइयसदं वा, गीयसदं वा हसियसई वा, थणियसई वा, कंदियसदं वा, विलवियसई वा, सुणित्ता हवइ से निग्गंथे । तं कहमिति चेत् आयरिय आह-निग्गंथस्स खलु इत्थीणं कुड्तरंसि वा, दूसंतरंसि वा, भित्तितरंसि वा, कूइयसदं वा, रुइयसई वा, गीयसदं वा, हसियसदं वा, थणियसई वा, कंदियसदं वा, विलवियसदं वा, सुणमाणस्स बंभयारिस्स बंभचेरे संका वा, कंखा वा, वितिगिच्छा वा समुप्पज्जिज्जा, भेयं वा लभिज्जा, उम्मायं वा पाउणिज्जा, दीहकालियं वा रोगायंकं हविज्जा, केवलिपन्नत्ताओ धम्माओ भंसिज्जा, तम्हा खलु निग्गंथे नो इत्थीणं कुड्डतरंसि वा, दूसंतरंसि वा, भित्तितरंसि वा, कूइयसदं वा, रुइयसदं वा, गीयसदं वा, हसियसई वा, थणियसई वा, विलवियसई वा, सुणमाणे विहरेज्जा ॥५॥ स निर्ग्रन्थो भवेत् । स इति कः ? यः कुड्यान्तरे कुड्यं पाषाणरचितम्, तेनान्तरं व्यवधानं कुड्यान्तरं, तस्मिन् कुड्यान्तरे स्थित्वेत्यध्याहारः, दूष्यान्तरे वा वस्त्ररचितभित्त्यन्तरे परिच्छदाया अन्तरे स्थित्वा, भित्त्यन्तरे मृत्तिकापक्वेष्टिकाणां भित्तिव्यवधाने स्थित्वा वा,
SR No.022592
Book TitleUttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorVajrasenvijay, Bhagyeshvijay
PublisherBhadrankar Prakashan
Publication Year2001
Total Pages350
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy