SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ षोडशं ब्रह्मचर्यसमाधिस्थानाख्यमध्ययनम् १६] [२५५ स निर्ग्रन्थो भवति, स इति कः ? यः स्त्रीणामर्थादेकाकिनीनां स्त्रीणामेव कथां वाक्यप्रबन्धरूपां वार्ताम्, अथवा स्त्रीणां जातिकुलनेपथ्यविषयाम्, पद्मिनी, चित्रिणी, हस्तिनी, शङ्खिनी, मुग्धा, मध्या, प्रौढादिरूपां कार्णाटकलाटसिंहलदेशोद्भवानां नारीणां वर्णनरूपां कथां प्रति कथयिता न भवति स साधुर्भवतीत्यर्थः । स्त्रीणामग्रे कथाम्, अथवा स्त्रीणामेव वर्णनं करोति स साधुन स्यादिति भावः । इत्युक्तः शिष्यः प्राहतत्कथमिति चेदेवं यदि मन्यसे, आचार्य आह-हे शिष्य ! खलु निश्चयेन निर्ग्रन्थस्य साधोः स्त्रीणां कथां कथमानस्य ब्रह्मचारिणोऽपि ब्रह्मचर्ये शङ्का, एनां सेवामि, न सेवामि इत्यादिरूपा, अथवा आकाङ्क्षा, अग्रेतनानां पदानां पूर्ववदेव अर्थो ज्ञेयः । नवरं 'तम्हा' इति तस्माच्छङ्कादिदोषप्रादुर्भावात्खलु निश्चयेन निर्ग्रन्थः स्त्रीणामेवाग्रे, स्त्रीणामेव केवला कथां न कथयेत् ॥ २॥ इति द्वितीयं ब्रह्मचर्यसमाधिस्थानम् । एषा द्वितीया वाटिका ॥२॥ अथ तृतीयामाह नो निग्गंथे इत्थीहिं सद्धि संनिसिज्जागए विहरत्ता हवइ से निग्गंथे ।तं कहमिति चेत् आयरिय आह-निग्गंथस्स खलु इत्थीहिं सद्धि सन्निसिज्जागयस्स विहरमाणस्स बंभयारिस्स बंभचेरे संका वा कंखा वा वितिगिच्छा वा समुप्पज्जिज्जा भेयं वा लभिज्जा उम्मायं वा पाउणिज्जा दीहकालियं वा रोगायंकं हविज्जा केवलिपन्नताओ वा धम्माओ भंसिज्जा । तम्हा खलु नो निग्गंथे इत्थीहिं सद्धि सन्निसिज्जागए विहरेज्जा ॥३॥ __स निर्ग्रन्थो भवेत्, यः स्त्रीभिः सार्धं निषद्या, निषीदन्त्यस्यामिति निषद्या, पट्टिकापीठफलकचतुष्ककाद्यासनम्, तां निषद्यां गतः स्थितः सन् विहर्ता अवस्थाता न भवेत् । कोऽर्थः ? यः स्त्रीभिः सहैकस्मिन्नासने नोपविशेत् स निर्ग्रन्थो भवेत् । अत्रायं सम्प्रदायःयत्रासने पुरा स्त्री उपविष्टा भवति, तत आसनात् स्त्रियामुत्थितायां सत्यां मुहूर्तादनन्तरं तदासनं साधोरुपविशनयोग्यं भवति । तं कहमिति चेत् आयरिय आह' अनयोः पदयोरर्थः पूर्ववत् । 'निग्गंथस्स खलु इत्थीहिं० 'निर्ग्रन्थस्य खलु स्त्रीभिः सार्धं निषद्यां गतस्य-प्राप्तस्य विहरमाणस्य तत्र स्थितस्य ब्रह्मचारिणो ब्रह्मचर्ये शङ्कादयो दोषा उत्पद्यन्ते । तस्माकारणात्खलु निश्चयेन निर्ग्रन्थः स्त्रीभिः सहैकत्रासने गतः-प्राप्तः सन्नो विहरेनोपविशेत् ॥३॥ इति तृतीयं ब्रह्मचर्यसमाधिस्थानम्, एषा तृतीया वाटिका ॥३॥ नो निग्गंथे इत्थीणं इंदियाइं मणोहराई मणोरमाइं आलोइत्ता निज्झाइत्ता हवइ, से निग्गंथे । तं कहमिति चेत् आयरिय आह-निग्गंथस्स खलु इत्थीणं इदियाइं मणोहराई मणोरमाइं आलोएमाणस्स निज्झायमाणस्स बंभयारिस्स बंभचेरे संका वा कंखा वा वितिगिच्छा वा समुप्पजिज्जा, भेयं वा लभेज्जा,
SR No.022592
Book TitleUttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorVajrasenvijay, Bhagyeshvijay
PublisherBhadrankar Prakashan
Publication Year2001
Total Pages350
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy