SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ २५४] [ उत्तराध्ययनसू शिष्य ! खलु निश्चयेन स्त्रीपशुपण्डकादिभिः संसक्तानि शयनासनानि सेवमानस्य निर्ग्रन्थस्य ब्रह्मचर्यधारिणोऽपि साधोर्ब्रह्मचर्ये शकोत्पद्यते । इमां स्त्रीं सेवे वा न सेवे वा, अथवाऽन्येषामपि स्त्रीपशुपण्डकादिसहिते स्थाने स्थितं ब्रह्मचारिणं साधुं दृष्ट्वा शङ्का उत्पद्यते । किमयमेतादृशो विरुद्धानां शयनासनानां सेवी ब्रह्मचारी भवेत् न वा ? आत्मनस्तु स्त्र्यादिभिरत्यन्तापहृतचित्ततया मिथ्यात्वोदयादेव स्त्रीसेवने मैथुने नवलक्षसूक्ष्मजीवानां वधो जिनैः प्रोक्तः तत्सत्यं वा मिथ्या वेत्यादिरूपः संशय उत्पद्यते । पुनर्ब्रह्मचारिणः काङ्क्षा स्त्रीपशुपण्डकादिभिर्मैथुनेच्छोत्पद्यते । पुनर्ब्रह्मचारिणः साधोर्बह्मचर्ये विचिकित्सोत्पद्यते । मया ब्रह्मचर्यपालने एतावन्महत्कष्टं विधीयते, तस्य ब्रह्मचर्यकष्टस्य फलं भविष्यति न वा ? तस्माद्वरमेतेषां सेवनम् एतेषां सेवने साम्प्रतं मम सुखं जायते एतादृशी मतिः समुत्पद्यते । वाऽथवा भेदं चारित्रस्य विदारणं विनाशं लभेत, वाऽथवोन्मादं कामेन पारवश्यं प्राप्नुयात् । वाथवा तादृशस्त्र्यादिसहितानि स्थानानि सेवमानस्य साधोर्दीर्घकालिकं प्रचुरकालभावि स्त्र्यादिसेवनाभिलाषोत्कर्षत आहारादावरुचिर्निद्वाराहित्यादिदोषै रोगोदाहज्वरादिः, आतङ्कः-शीघ्रघाती शूलादिः, रोगश्चातङ्कश्चानयोः समाहारो रोगातङ्कं शरीरे भवेत् । यतो हि कामाधिक्यात् कामिनां शरीरे दश कामभावा जायन्ते । यदुक्तं"प्रथमे जायते चिंता, द्वितीये द्रष्टुमिच्छति । तृतीये दीर्घनि:श्वासा- -श्चतुर्थे ज्वरमादिशेत् ॥ १ ॥ पंचमे दह्यते गात्रं, षष्ठे भक्तं न रोचते । सप्तमे च भवेत्कम्प-मुन्मादश्चाष्टमे तथा ॥ २ ॥ नवमे प्राणसंदेहो, दशमे जीवितं त्यजेत् । कामिनां मदनोद्वेगा - द्दश संजायते ह्यमी ॥ ३ ॥" इति स्त्रीदर्शनाद्दश भावा उत्पद्यन्ते । अथ पुनः केवलिप्रज्ञप्तात्केवलिप्रणीताद्धर्मात् श्रुतचारित्ररूपाद् भ्रस्येद् धर्माद्भ्रष्टो भवेत् । तस्मादेतेषां दूषणानां प्रादुर्भावात् खलु निश्चयेन स्त्रीपशुपण्डकससक्तानां शयनासनस्थानानां सेवितोपभोक्ता भिक्षुर्नो भवेत्, स निर्ग्रन्थो नो भवेत् । इति प्रथमं ब्रह्मचर्यसमाधिस्थानम् । एषा प्रथमा ब्रह्मचर्यतरोर्वाटिका । नो इत्थीणं कहं कहेत्ता हवइ से निग्गंथे तं कहमिति चेत् आयरिय आह-निग्गंथस्स खलु इत्थीणं कहं कहेमाणस्स बंभयारिस्स बंभचेरे संका वा कंखा वा वितिगिच्छा वा समुप्पज्जिज्जा, भेयं वा लभेज्जा, उम्मायं वा पाउणिज्जा, दीहकालियं वा रोगायंकं हविज्जा, केवलिपन्नत्ताओ धम्माओ भंसेज्जा, तम्हा खलु निग्गंथे नो इत्थीणं कहं कहेज्जा ॥ २ ॥
SR No.022592
Book TitleUttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorVajrasenvijay, Bhagyeshvijay
PublisherBhadrankar Prakashan
Publication Year2001
Total Pages350
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy