________________
षोडशं ब्रह्मचर्यसमाधिस्थानाख्यमध्ययनम् १६ ]
[२५३ स्थानानि प्रतिपादितानि ? यानि भिक्षुः श्रुत्वा - निशम्य संयमबहुलः संवरबहुलो गुप्तो गुप्तेन्द्रियो गुप्तब्रह्मचारी सदाऽप्रमत्तः सन् विहरेत् ।
इति जम्बूस्वामिनः प्रश्नवाक्यं श्रुत्वा सुधर्मास्वामी प्राह
इमे खलु ते थेरेहिं भगवंतेहिंदस बंभचेरसमाहिठाणा पन्नत्ता, जे भिक्खू सुच्चा निसम्म संयमबहुले संवरबहुले समाहिबहुले गुत्ते गुत्तिदिए गुत्तबंभयारी सया अप्पमत्ते विहरिज्जा ॥
हे जम्बू ! इमानि प्रत्यक्षं वक्ष्यमाणानि खलु निश्चयेन तानि स्थविरैर्भगवद्भिर्दश - ब्रह्मचर्यसमाधिस्थानानि प्रज्ञप्तानि, यानि दश ब्रह्मचर्यसमाधिस्थानानि शब्दतः श्रुत्वा, निशम्यार्थतो हृद्यवधार्य भिक्षुः-साधुः संयमबहुलः समाधिबहुलो गुप्तो गुप्तेन्द्रियो गुप्तब्रह्मचारी सर्वदाऽप्रमत्तोऽप्रतिबद्धविहारी सन् विहरेत् ।
तानि समाधिस्थानानि निरूपयति
तं जहा-विवित्ताई सयणासणाई सेविज्जा से निग्गंथे, नो इत्थीपसुपंडगसंसत्ताई सयणासणाई सेवित्ता हवइ से निग्गंथे । ____तद्यथा-तानि यथा सन्ति तथा निरूपयामि । हे जम्बू ! स निर्ग्रन्थो भवेत्, स इति कः ? यो विविक्तानि स्त्रीपशुपण्डगादिभिर्विरहितानि शयनानि पट्टिकासंस्तारकादीनि, अर्थात् शयनादीनां स्थानानि सेवेत कायेनानुभवेत् अयमन्वयार्थः । यः स्त्रीपशुपण्डकादिरहितस्थानानि सेवेत स निर्ग्रन्थो भवेदित्यर्थः । अथ व्यतिरेकेणार्थमाह-यस्मिन् सति यद्भवेत् सोऽन्वयः, यस्मिन्नसति यन्न भवेत् स व्यतिरेकः । व्यतिरेकं दर्शयति-'नो इत्थीपसुपंडगसंसत्ताई सयणासणाई सेवित्ता हवइ, से निग्गंथे' हे जम्बू ! स निर्ग्रन्थो नो भवेत्, स कः ? यः स्त्रीपशुपण्डकादिसंसक्तानां - स्त्रीपशुपण्डकादिभिः सेवितानां शयनास-नानां सेवितोपभोक्ता भवेत्।
इति वचनं श्रुत्वा शिष्यः प्राहतं कहमिति चेत् आयरियाहहे स्वामिन् ! तत्पूर्वोक्तं कथं ? केनोत्पत्तिप्रकारेण ? इति चेदेवं यदि मन्यसे । इति शिष्येण पृष्टव्ये सत्याचार्य आह
निग्गंथस्स खलु इत्थी पसुपंडगसंसत्ताइ सयणासणाई सेवमाणस्स बंभयारिस्स बंभचेरे संका वा कंखा वा वितिगिच्छा वा समुप्पज्जिज्जा, भेयं वा लभेज्जा, उभ्भायं वा पाउणिज्जा, दीहकालियं वा रोगायंकं हविज्जा, केवलिपन्नत्ताओ धम्माओ भंसेज्जा, तम्हा नो इत्थिपसुपंडगसंसत्ताई सयणासणाइं सेवित्ता हवइ से निग्गंथे ॥