________________
॥अथ षोडशं ब्रह्मचर्यसमाधिस्थानाख्यमध्ययनं प्रारभ्यते ॥
पञ्चदशेऽध्ययने हि भिक्षुगुणा उक्ताः । ते भिक्षुगुणा हि ब्रह्मचर्ययुक्तस्य साधोर्भवन्ति । अतः षोडशेऽध्ययने ब्रह्मचर्यस्य समाधिस्थानान्युच्यन्ते___सुयं मे आउसं तेणं भगवया एवमक्खायं इहखलु थेरेहिं भगवंतेहिं दस बंभचेरसमाहिठाणा पन्नत्ता, जे भिक्खूसुच्चा निसम्म संजमबहुले संवरबहुले समाहिबहुले गुत्ते गुत्तिदिए गुत्तबंभयारी सया अप्पमत्ते विहरिज्जा ॥ ___श्रीसुधर्मास्वामी स्वशिष्यं जम्बूस्वामिनं प्राह-हे आयुष्मन् ! मे मया श्रुतम्, 'तेणं' इति तेन भगवता ज्ञानवता तीर्थकरेणाख्यातम्, श्रीमहावीरेण स्वामिनोक्तम्, आसन्नत्वात्तस्यैव ग्रहणम् । पुनरिह श्रीजिनशासने स्थविरैर्गणधरैर्भगवद्भिर्माहात्म्यवद्भिस्तीर्थकरोक्तार्थधारणशक्तिमद्भिर्दशब्रह्मचर्यसमाधिस्थानान्युक्तानि, ब्रह्मचर्यस्थैर्यस्य कारणान्युक्तानि । कोऽर्थः ? ममैवैषा बुद्धिर्नास्ति, किन्तु तीर्थकरैः पुनर्गणधरैगौतमादिभिः स्वापेक्षया वृद्धैरेवमुक्तम्, तथैव मयोच्यते । यानि ब्रह्मचर्यसमाधिस्थानानि भिक्षुः श्रुत्वा शब्दतः श्रवणे धृत्वा, निशम्यार्थतो मनस्यवधार्य संयमबहुलः सन्, बहुलः प्रधानप्रधानतरस्थानप्राप्त्योत्तमः संयमो यस्य स बहुलसंयमो वर्धमानपरिणामचारित्रः सन् विहरेत् । पुनर्यानि ब्रह्मचर्यसमाधिस्थानानि श्रुत्वा संवरबहुलः, संवर आस्रवनिरोधः, स बहुलो यस्य स संवरबहुलः, प्रधानास्रवद्वारनिरोधः, पुनः समाधिबहुलो बहुलसमाधिः प्रधानचित्तस्वास्थ्ययुक्तः सन् विहरेत् । पुनर्यानि ब्रह्मचर्यसमाधिस्थानानि श्रुत्वा भिक्षुर्गुप्तो मनोवाक्कायगुप्तियुक्तः सन्, अत एव गुप्तं नवगुप्तिसेवनाद् गुप्तं सुरक्षितं ब्रह्मचर्यं चरितुं-सेवितुं शीलं यस्य स गुप्तब्रह्मचारी स्थिरब्रह्मचर्यधारकः सन् सदा सर्वदाऽप्रमत्तोऽप्रमादी सन् विहारं कुर्यात् । यतो हि पूर्वं यः साधुर्ब्रह्मचर्यसमाधिस्थानानि श्रृणोति स साधुर्ब्रह्मचर्यपालने स्थिरो भवति । यदुक्तम्
"सुच्चा जाणइ कल्लाणं, सुच्चा जाणइ पावगं ।
उभयपि जाणइ सोच्चा, जं सेयं तं समायरे॥१॥" [दशवैकालिक-४-११] इति श्रुत्वा जम्बूः प्राह
कयरे खलु ते थेरेहिं भगवंतेहिं दस बंभेचेरसमाहिठाणा पन्नत्ता ? जे भिक्खू सुच्चा निसम्म संयमबहुले संवरबहुले समाहिबहुले गुत्ते गुतिदिए गुत्तबंभयारी सया अप्पमत्ते विहरेज्जा ॥
हे स्वामिन् ! यानि ब्रह्मचर्यसमाधिस्थानानि भिक्षुः- साधुः शब्दतः श्रुत्वा, अर्थतो हृद्यवधार्य संयमबहुलः संवरबहुलः समाधिबहुलो गुप्तो गुप्तेन्द्रियो गुप्तब्रह्मचारी सदाऽप्रमादी विहरेत् । तानि खलु निश्चयेन कतराणि - कानि तैः स्थविरैर्भगवद्भिर्दश ब्रह्मचर्यसमाधि