SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ पञ्चदशं भिक्षुलक्षणाख्यमध्ययनम् १५] [२५१ असिप्पजीवी अगिहे अमित्ते, जिइंदिए सव्वओ विप्पमुक्के। अणुक्कसाई लहुअप्पभक्खी, चिच्चा गिहंएगचरेस भिक्खु॥१६॥त्तिबेमि ॥ स भिक्षुर्भवेत् । स इति कः ? यो गृहं द्रव्यभावभेदेन द्विविधं त्यक्त्वैक एकाकी रागद्वेषरहितोऽसहायो वा चरतीत्येकचरः स्यात् । कथंभूतः सः ? अशिल्पजीवी शिल्पेनविज्ञानेन जीवते आजीविकां करोतीति शिल्पजीवी, न शिल्पजीवी अशिल्पजीवी, चित्रकरणादिविज्ञानेनाजीविकां न करोतीत्यर्थः । पुनः कीदृशः ? अगृहो, न विद्यते गृहं यस्य सोऽगृहः स्त्रीपरिचयरहितः, अथक गृहस्थैः सह परिचयरहितः । पुनः कीदृशः ? अमित्रः शत्रुमित्ररहितः । पुनः कीदृशः ? जितेन्द्रियः । पुनः कीदृशः ? सर्वतो विप्रमुक्तो बाह्याऽभ्यन्तरसंयोगाद्विप्रमुक्तः सर्वपरिग्रहरहितः।पुनः कीदृशः ? अणुकषायो मन्दकषायीत्यर्थः । पुनः कीदृशः ? लघ्वल्पभक्षी, लघूनि निःसाराणि वल्लचणकनिष्यावककुलत्थामाषादिप्रासुकाहाराणि, तानि स्तोकानि भक्षितुं शीलं यस्य स लघ्वल्पभक्षी नीरसस्तोकाहारकारीत्यर्थः । अथवा लघु-प्रासकं च तदल्पं च लघ्वल्पं तदाहारं भक्षितं शीलं यस्य स लघ्वल्पभक्षी, अथवा लघुः क्षीणकर्मा स चासावल्पभक्षी च लघ्वल्पभक्षी, इत्यहं ब्रवीमीति सुधर्मास्वामी जम्बूस्वामिनं प्राह ॥ १६ ॥ इति भिक्षुलक्षणारव्यमध्ययनं पञ्चदशं सम्पूर्णम् ॥ १५ ॥ इति श्रीमदुत्तराध्ययनसूत्रार्थदीपिकायामुपाध्यायश्रीलक्ष्मीकीर्तिगणिशिष्यलक्ष्मीवल्लभगणिविरचितायां भिक्षलक्षणाख्यमध्ययनं पञ्चदशं सम्पूर्णम् ॥५५॥
SR No.022592
Book TitleUttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorVajrasenvijay, Bhagyeshvijay
PublisherBhadrankar Prakashan
Publication Year2001
Total Pages350
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy