SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ २५० ] [ उत्तराध्ययनसूत्रे आयामगं चेव जवोदणं च, सीयं च सोवीरजवोदगं च । नो हीलए पिंडं नीरसं तु, पंतं कुलाई परिव्वए स भिक्खु ॥ १३ ॥ यः प्रान्तानि कुलानि परिव्रजेत्, प्रान्तानि दुर्बलानि, चित्तवित्ताभ्यां दुर्बलानि, एतादृशानि कुलान्याहारार्थं परिव्रजेत्, सर्वदा धनिनामेव कुलेषु यो न याति सर्वदा दानशोण्डानामेव कुलेषु न याति ततो हि नियतपिण्डसेवनात्साधोर्धर्महानिः स्यात् । तु पुनर्य आयामकं-धान्यस्याऽवश्रावणं, च पुनर्यवोदनं यवभक्तम्, पुनः शीतं चिरकालीनम्, पुनः सौवीरं काञ्जिकम्, पुनर्यवोदकं यवप्रक्षालनजलमित्यादिकम्, पुनर्यनीरसं पिण्डं सर्वथा रसवर्जितमेतादृशमाहारं पानीयं गृहस्थानां गृहाल्लब्धं यो न हीलयेन्न निन्देत् कदन्नमिदम्, कुत्सितं पानीयमेतदित्यादिवचनं न ब्रूते, स साधुभिक्षुरित्युच्यते ॥ १३ ॥ सद्दा विवहा भवंति लोए, दिव्वा माणुस्सगा तहा तिरिच्छा । भीमा भयभेरवा उराला, जे सुच्चा न विहिज्जइ स भिक्खू ॥ १४ ॥ य एतादृशान् शब्दान् श्रुत्वा न 'विहज्जइ' न व्यथते, धर्मध्यानान्न चलते स भिक्षुरुच्यते । एतादृशान् कीदृशान् ? ये शब्दा लोके दिव्याः, दिवि भवा दिव्याः, देवैर्भयाय कृताः, पुनर्ये शब्दा मानुष्यका मनुष्यैः कृता मानुष्यकाः, तथा ये शब्दास्तिरश्चीनास्तैरश्चास्तिर्यग्भ्यो भवास्तिरश्चीना भवन्ति, तान् श्रुत्वा न क्षोभं प्राप्नोति । कीदृशाः शब्दाः ? भयभैरवाः, भयेन भैरवा भयभैरवाः, अत्यन्तसाध्वसोत्पादकाः, पुनः कीदृशाः ? उदारा महान्तो भवन्ति ॥ १४ ॥ वायं विविहं समिच्च लोए, सहिए खेयाणुगए य कोवियप्पा | पन्ने अभिभूय सव्वदंसी, उवसंते अविहेडए स भिक्खू ॥ १५ ॥ यः पुनर्लोके विविधं वादं समेत्य अविहठको भवेत्, 'कस्यचित्पक्षपातं न कुर्यात् । लोके हि बहूनि दर्शनानि सन्ति, ते परस्परं वादं कुर्वन्ति, अन्योन्यं मतं दुषयन्ति, मुण्डा जटाधारिभिः, नग्ना वस्त्रधारिभिः, गृहस्था वनवासिभि:, इत्यादिस्वस्वमताभिप्रायवचनरूपं वादं कृत्वा कस्यापि बाधां न कुर्यादित्यर्थः । कीदृशो यः ? सहितो ज्ञानदर्शनचारित्रसहितः, पुनः कीदृश: ? खेदानुगतः, खेदयति मन्दीकरोति कर्मानेनेति खेदः - संयमः, तेनानुगतः खेदानुगतः सप्तदशविधसंयमरतः । पुनः कीदृश: ? कोविदात्मा, कोविदो - लब्धशास्त्रपरमार्थ आत्मा यस्येति कोविदात्मा । पुनः कीदृश: ? प्राज्ञः प्रकर्षेणान्येभ्य आधिक्येन जानातीति प्राज्ञः सारबुद्धिमान् । पुनः कीदृश: ? अभिभूय सर्वदर्शी, अभिभूय परीषहान् जित्वा रागद्वेषौ निवार्य सर्वजन्तुगणमात्मसदृशं पश्यतीत्येवंशीलः सर्वदर्शी । पुनः कीदृश: ? उपशान्तः कषायरहितः स्यात्, स भिक्षुरित्युच्यते ॥ १५ ॥ १ कस्यचिद् बाधको न भवेत्, कस्यचित्पं- मु. ॥
SR No.022592
Book TitleUttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorVajrasenvijay, Bhagyeshvijay
PublisherBhadrankar Prakashan
Publication Year2001
Total Pages350
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy