________________
पञ्चदशं भिक्षुलक्षणाख्यमध्ययनम् १५]
[२४९ गिहिणो जे परिव्वइएण' दिट्ठा, अप्पव्वईएण च संथुया हविज्जा। तेसिं इहलोइयफलट्ठा, जो संथवं न करेइ स भिक्खू ॥ १० ॥
यस्तैहस्थैः सह इहलोकफलार्थं संस्तवं-परिचयं न करोति, प्राकृतत्वात् 'तेसि' मिति तृतीयास्थाने षष्ठी । तैर्गृहस्थैः कैः ? ये गृहस्थाः परिव्रजितेन गृहीतदीक्षेण दृष्टाः, चशब्दः पुनरर्थे , पुनरप्रव्रजितेनाऽगृहितदीक्षेण गृहस्थाश्रमस्थितेन संस्तुताः कृतपरिचयाः, तैः सहालापसंलापमिहलोकस्वार्थाय न कुर्यात्, स साधुरित्यर्थः ॥१०॥
जं किंचि आहारपाणगं, विविहं खाइमसाइमं परेसिं लद्धं । जो तं तिविहेण नाणुकंपे, मणवयकायसुसंवुडे न स भिक्खू ॥११॥
स भिक्षुर्न भवति, स कः ? यः ‘परेसिं' इति परेभ्यो गृहस्थेभ्य आहारमन्नादिकम्, पानकं दुग्धादिकम्, पुनर्विविधं नानाप्रकारं खादिम खर्जुरादिकम् स्वादिम लवङ्गादिकं लब्ध्वा, तमिति तेनाशनपान-खादिम-स्वादिमादिना चतुर्विधेन, त्रिविधेन मनोवाक्काययोगेन नानुकम्पते, ग्लानबालादीन्नोपकुरुते । कोऽर्थः ? योऽशनपानखादिमस्वादिमाहारं लब्ध्वा बालवृद्धानां साधूनां तेनाहारेण संविभागं न करोति स साधुन भवतीत्यर्थः । 'असंविभागी न हु तस्स मोक्खं' इत्युक्तेः । पुनः साधुः कीदृग्भवति ? मनोवाकाययोगेन सुतरां संवृतः पिहिताश्रवद्वारः ॥ ११ ॥
सयणासणपाणभोयणं, विविहं खाइमसाइमं परेसिं । अदए पडिसेहिए नियंठे, जे तत्थ न पउस्सई स भिक्खू ॥१२॥
पुनर्यः शयनासनपानभोजनम्, पुनर्विविधं खादिम-स्वादिमम्, परेण गृहस्थेनादत्ते, अथवा गृहे साधौ प्रतिषिद्धे सति तस्मिन् गृहस्थे प्रद्वेषं न करोति - न प्रद्वेष्टि । कोऽर्थः ? यदा कश्चित्साधुः कस्यचिद् गृहस्थस्य गृहे गतस्तस्य च गृहस्थस्य गृहे प्रभूतं शयनं-शय्या, चाशनं-मोदकादिकम्, पानं खजूरदाक्षादिपानीयम्, शर्करादिजलम्, प्रासुकं-तन्दुलप्रक्षालनजलं वा, भोजनं-तन्दुलदाल्यादि, पुनर्विविधं-नानाप्रकारम् खादिम-खजूर-नालिकेरगरिकादिकम्, स्वादिम-लवङ्गला-जातिफल-तजादिकं वर्तते, परंस गृहस्थः साधवे न प्रददाति अथवा पुनर्निवारयति, रेभिक्षो ! अत्र नागन्तव्यमिति तद्वाक्यं श्रुत्वेति न जानातिधिगेनं गृहस्थं दुष्टम्, यः प्रभूते वस्तुनि सति मह्यं न ददाति, अथ च मां निवारयतीति द्वेषं न विधत्ते, स साधुभिक्षुरित्युच्यते ॥१२॥ १ पव्वइएण-इति अन्यसंस्करणे-तत्र तस्य व्याख्याऽपि प्रव्रजितेन इति कृता॥ २ व शब्दः अन्यसंस्करणे॥ ३ अन्यसंस्करणे इयं गाथा द्वादशतमायां सङ्ख्यायां विद्यते, द्वादशतमा च एकादशतमायां विद्यते ॥ ૩૨