SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ २४८] [उत्तराध्ययनसूत्रे विना वृक्षादिफलनमित्यादिलक्षणा विद्या । पुनरान्तरिक्षम् अन्तरिक्षे आकाशे भवमान्तरिक्षमुल्कापातधूमकेतुप्रमुखाणामुदयविचार-विद्या । स्वप्नं स्वप्नगतं शुभाशुभलक्षणं स्वप्नविद्या । लक्षणं स्त्रीपुरुषाणां सामुद्रिकशास्त्रोक्तम्, तुरङ्गगजादीनां शालिहोत्रगजपरीक्षादिशास्त्रोक्तम् । दण्डं दण्डविद्या, वंशदण्डादिपर्वसङ्ख्याफलकथनम् ।वास्तुविद्या प्रासादानां गृहाणां विचारकथनं वास्तुशास्त्रोक्तम् । अङ्गविद्या शरीरस्पर्शनस्य नेत्रादीनां स्फुरणस्य वा विचारोङ्गविचारशास्त्रम् ।पुनः स्वरस्य विजयो दुर्गाश्रृगालीवायसतित्तरादीनां स्वरस्य विजयस्तस्य स्वरस्य शुभाशुभनिरूपणाभ्यासः । य एताभिर्विद्याभिराजीविकां न करोति स भिक्षुरित्यर्थः ॥७॥ मंतं मूलं विविहं विज्जचितं, वमणविरेयणधूमणेत्तसिणाणं । आउरे सरणं तिगच्छियं च, तं परिनाय परिव्वए स भिक्खू ॥८॥ पुनः स भिक्षुरित्युच्यते । स इति कः ? य एतत् सर्वं परिज्ञाय, परि-समन्ताद् ज्ञात्वा परिज्ञाय परिव्रजेत् साधुमार्गे चरेत्, 'जाणियव्वा नो समायरियव्वा' इत्युक्तेः । एतत् किं किं मन्त्रं ॐ हीं प्रभृतिकं स्वाहान्तं देवाराधनम् । मूलं मूलिका राजहंसीशङ्खपुष्पीशरपुङ्खादिगुणसूचकं शास्त्रम् । पुनर्विविधं नानाप्रकारं वैद्यचिन्तं वैद्यकशास्त्रस्यौषधचिकित्सालक्षणस्य चिन्तनं वर्जयेत् । विदलं शूली कुष्ठी मांसं ज्वरी घृतमित्यादि । पुनर्वमनं वमनादिकरणोपायम्, अथवा वमनफलम्, ज्वरादौ वमनं श्रेष्ठम्, तथा विरेचनं विरेचगुणकथनं तदौषधप्रयोगचिन्तनम्, धूमो मनःशिलादिसम्बन्धी भूतवासनादिकः, नेत्रशब्देन नेत्रसंस्कारकं गुटीचूर्णादिकम्, स्नानमपत्यार्थ मन्त्रौषधीभिः संस्कृतजलैर्मूलादिस्नानम्, अथवा रोगमुक्तस्नानं वा।पुनरातुरे इति आतुरस्य रोगादिपीडितस्य हा मातरित्यादिस्मरणम्, आत्मनश्चिकित्सितं रोगप्रतीकारचिन्तनं परित्यजेत् । एतत्सर्वं परिज्ञायात्मनः परस्य वोभयथा परिव्रजेत्, साधुमार्ग यायादित्यर्थः ॥८॥ खत्तियगणउग्गरायपुत्ता, माहणभोइय विविहा य सिप्पिणो । नो तेसिं वयइ सिलोगपूयं, तं परिन्नाय परिव्वए स भिक्खू ॥९॥ भिक्षरित्युच्यते । स इति कः ? यस्तेषां गाथोक्तानां श्लोकः कीर्तिर्यथा, एते भव्याः पूज्या इति, एते पूजायोग्याः, एतेषां पूजा कर्तव्या, एतेषां कीर्तिकरणे, एतेषां पूजाया उपदेशे च न कश्चिल्लाभः स्यात् साधुनैतेषां कीर्तिपूजे न कर्तव्ये इत्यर्थः । एते के के ? ये क्षत्रिया राजानः, तथा गणा मल्लादीनां समूहाः, पुनरुग्राः कोट्टपालाः, राजपुत्रा राजकुमाराः, बाह्मणाः प्रसिद्धाः, भोगिनो भोगवंशोद्भवाः, अथवा भोगिनो विषयभोक्तारः, च पुनर्विविधा-नानाप्रकाराः शिल्पिनश्चित्रकार-सूत्रधार-स्वर्णकार-लोहकारादयो ये वर्तन्ते, तान् परिज्ञायोभयथा ज्ञात्वा साधुः साधुमार्गे परिव्रजेत् ॥९॥
SR No.022592
Book TitleUttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorVajrasenvijay, Bhagyeshvijay
PublisherBhadrankar Prakashan
Publication Year2001
Total Pages350
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy