SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ पञ्चदशं भिक्षुलक्षणाख्यमध्ययनम् १५] [२४७ सहितः सर्वजीवेषु हितान्वेषी, अथवा ज्ञानदर्शनाभ्यां सहितः । पुनर्य आत्मानं कर्ममलापहारेण शुद्धं गवेषयतीत्यात्मगवेषकः, पुनर्यस्तपस्वी ॥५॥ 'जे पुण जहाइ जीवियं, मोहं वा कसिणं निअच्छइ । नरनारिं पजहे सया तवस्सी, न य कोऊहलं उवसेवई स भिक्खू ॥६॥ यः पुनस्तं हेतुं जहाति । तं कं ? येन हेतुना येन कृतेन जीवितं संयमजीवितव्यं जहाति । पुनर्येन कृत्वा मोहं वा मोहनीयकर्म कषायनोकषायरूपं कृत्स्नं सम्पूर्ण नियच्छतिबध्नाति । तादृशं नरं नारी - स्त्री सदा - सर्वदा प्रजह्यात् । कोऽर्थः ? येन पुरुषस्त्र्यादिना कृत्वा संयमं याति, येन कृत्वा मोहकर्मोदयः स्यात्, तं प्रति यस्त्यजेत् स भिक्षुरित्यर्थः । पुनर्यस्तपस्वी तपोनिरतः पुनर्यः कौतूहलं स्त्र्यादिविषयम्, अथवा नाटकेन्द्रजालादिकौतुकं न चोपसेवते, स भिक्षरित्युच्यते ॥६॥ छिन्नं सरं भोममंतरिक्खं, सुमिणं लक्खणदंडवत्थुविज्जं । अंगवियारं सरस्स विजयं, जो विज्जाहिं न जीवई स भिक्खू ॥७॥ पुनः स भिक्षुरित्युच्यते । स कः ? य इत्यादिभिर्विद्याभिर्न जीवत्याजीविकां न करोति । ताः का विद्याः ? छिद्यते इति छिन्नम्, वस्त्रादीनां मूषकादिना दर्शनम्, अग्न्यादिप्रज्वलनम्, कज्जलकर्दमादिना लिम्पनं स्पटनमित्यादिशुभाशुभविचारसूचिका विद्या छिन्नमित्युच्यते । यदा हि वस्त्रे नूतने किञ्चिद्विकारे सति विचारः क्रियते, यदुक्तं रत्नमालायां निवसंत्यमरा हि वस्त्रकोणे, मनुजाः पार्श्वदशान्तमध्ययोश्च । अपरेऽपि च रक्षसां त्रयोशाः, शयने चासनपादुकासु चैवं ॥ १ ॥ कज्जलकर्दमगोमयलिप्ते, वाससि दग्धवति स्फुटिते. वा । चिन्त्यमिदं नवधा विहितेऽस्मि-निष्टमनिष्टफलं च सुधीभिः ॥ २ ॥ भोगप्राप्तिर्देवतांशे नरांशे, पुत्राप्तिः स्याद्राक्षसांशे च मृत्युः । प्रान्ते सर्वांशेऽप्यनिष्टं फलं स्यात्, प्रोक्तं वस्त्रे नूतने साध्वसाधु ॥ ३ ॥ वस्त्रपरिधानशुभाशुभफलसूचकयंत्रं । इत्यादिविद्यया जीविकां न कुर्यात्स साधुः । पुनर्यः 'सरं' इति देवः | रक्षः | देवः स्वरविद्यां न प्रयुङ्क्ते, स्वरं हि -- षड्जऋषभगान्धार-मध्यमः पञ्चम-स्तथा । मनुजः रक्षः मनुजः धैवतो निषधः सप्त, तन्त्रीकण्ठोद्भवाः स्वराः ॥१॥ __"षड्ज रौति मयूरो, पञ्चमरागेण जल्पते परभृत् ।" इत्यादि-विद्या || | इत्यादिसंगीतशास्त्रम् पुनभौमम्, भूमौ भवं भौमं भूकम्पादि । ऋतुं १ जेण-इति अन्यसंस्करेण ॥२ उवेइ-इति अन्यसंस्करणे-तत्र उपैति व्याख्या कृता ॥
SR No.022592
Book TitleUttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorVajrasenvijay, Bhagyeshvijay
PublisherBhadrankar Prakashan
Publication Year2001
Total Pages350
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy