________________
२४६]
[उत्तराध्ययनसूत्रे पुनः स भिक्षुरित्युच्यते । स इति कः ? यो रागोपरतं यथा स्यात्तथा राग रहितं यथा स्यात्तथा चरेत् । परं कीदृशः सन् ? विरतोऽसंयममार्गानिवृत्तः, पुनः कीदृशः सन् ? वेदविदात्मरक्षितः, वेद्यते ज्ञायतेऽर्थोऽनेनेति वेदः सिद्धान्तस्तस्य वेदनम्, विद् ज्ञानं वेदवित् सिद्धान्तज्ञानम्, तेनात्मा रक्षितो दुर्गतिपतनाद्येन स वेदविदात्मरक्षितः । पुनः कीदृशः ? 'पन्ने' प्राज्ञो हेयोपादेयबुद्धिमान्, पुनर्योऽभिभूय - परीषहान् जीत्वा तिष्ठतीत्यध्याहारः । पुनः कीदृशः? सर्वदर्शी, सर्वं प्राणिगणमात्मवत्पश्यतीति सर्वदर्शी । पुनर्यः कस्मिंश्चित्सचित्ताचित्तवस्तुनि न मूर्च्छितोऽलोलुप इत्यर्थः ॥२॥
अक्कोसवहं विइत्तु धीरे, मुणी चरे लाढे निच्चमायगुत्ते । अव्वग्गमणे असंपहिढे, जे कसिणं अहियासए स भिक्खू ॥३॥
पुनःस भिक्षुरित्युच्यते। स इति कः?यआक्रोशश्च वधश्चानयोः समाहारआक्रोशवधं वाक्तर्जनताडनं विदित्वा स्वकर्मफलं ज्ञात्वा धीरस्तदाक्रोशवधादिसहनशीलो मुनिर्वाग्गुप्तियुक्तः सन् चरेत्, साधुवर्त्मनि विहरेत् । पुनः कीदृशः सन् ? लाढः साध्वनुष्ठाने तत्परः।पुनः कीदृशः ? नित्यमात्मगुप्तः, गुप्तोऽसंयमस्थानेभ्यो रक्षित आत्मा येन स गुप्तात्मा, प्राकृतत्वाद्विपर्ययः।पुनः कीदृशः?अव्यग्रमना-अनाकुलचित्तः,पुनः कीदृशः?असम्प्रहृष्ट-आक्रोशादिषुन प्रहर्षवान्,कश्चित्कदाचित्कस्मैचिदुर्वचनैर्निर्भर्त्सयतितदाहर्षितोनभवतीत्यर्थः। पुनर्यः कृत्स्नं समस्तमाक्रोशवधमध्यास्ते-सहते समवृत्तिर्भवति स साधुरित्यर्थः ॥३॥ पंतं सयणासणं भइत्ता, सीउण्हं विविहं च दंसमसगं । अव्वग्गमणे असंपहिढे, जे कसिणं अहियासए स भिक्खू ॥४॥
पुनर्यः प्रान्तमसारमप्रधानं शयनमासनम्, उपलक्षणात्वाद्भोजनाच्छादनादिकं भजित्वा सेवयित्वा, पुनः शीतोष्णम् च पुनर्विविधं दंशमशकं रुधिरपानकरं जन्तुगणं सकलं प्राप्य अव्यग्रमना भवेत्-स्थिरचित्तो भवेत् । पुनर्यः सम्यक् शयनासनभोजनाच्छादनलाभात्, शीताद्युपद्रवरहितस्थानलाभात्, तथा दंशमशकादिरहितस्थानलाभादसम्प्रहृष्टो भवति हर्षितो न भवति, समदुःखसुखो भवति, एतादृशः सन्नेतत् सर्वमध्यास्ते स भिक्षुरित्युच्यते ॥४॥
नो सक्कियमिच्छई न पूयं, नो वि य वंदणगं कओ पसंसं । से संजए सुव्वए तवस्सी, सहिए आयगवेसए स भिक्खू ॥५॥
स भिक्षुर्भवेत् । स इति कः ? यः सत्कृतं सत्कारमात्मनः सन्मुखं जनानामागमनमभ्युत्थानादिकम्, विहारं कुर्वतोऽनुगमनेन सम्प्रेषणम्, इत्यादिकं नो इच्छति । पुनर्यः पूजां वस्त्रपात्राहारादिभिरों नेच्छति । अपि च पुनर्वन्दनकं द्वादशावतपूर्वकं नमनम्, तदपि न वाञ्छति । कुतश्चित्पुरुषात्प्रशंसामपि नो इच्छति । स संयतः, सम्यग् यतते साध्वनुष्ठाने यलं कुरुते इति संयतः । पुनः कीदृशः ? सुव्रतः शोभनव्रतधारकः । पुनर्यः