________________
॥अथ पञ्चदशं भिक्षुलक्षणाख्यमध्ययनं प्रारभ्यते ॥
चतुर्दशेऽध्ययने निर्निदानस्य गुणः प्रोक्तः, स च निर्निदानगुणो हि मुख्यवृत्त्या भिक्षोरेव भवति, अतो भिक्षोर्लक्षणमाह
मोणं चरिस्सामि समिच्च धम्मं, सहिए उज्जुकडे नियाणछिन्ने । संथवं जहिज्ज अकामकामे, अन्नायएसी परिव्वए स भिक्खू॥१॥
य एतादृशः सन् परिव्रजेत्, अनियन्तमप्रतिबद्धं यथास्यात्तथा विहरेविहारं कुर्यात् स भिक्षुरुच्यते । स इति कः ? पूर्व मनस्येवं जानाति, अहं मौनम्, मुनीनां कर्म मौनं साधुधर्म चरिष्यामि, श्रामण्यमङ्गीकरिष्यामि, किं कृत्वा ? धर्मं दशविधं पञ्चमहाव्रतदीक्षां समेत्यप्राप्य, पुनर्यो दीक्षां गृहीत्वा संस्तवं पूर्वपश्चात्संस्तवं परिचयं कुटुम्बस्नेहं जह्यात्-त्यजेत् । परं कीदृशः सन् ? 'सहिए' इति सहितः स्थविरैर्बहुश्रुतैः साधुभिः सहितः साधु.काकी न तिष्ठेत् ।
''इकस्स कओ धम्मो' [ ] इत्युक्तत्वात् ।
अथवा कथंभूतः सन् ? स्वहितः सन्, स्वस्य हितं यस्य स स्वहित आत्महिताभिलाषी। पनः कीदृशः?'उज्जकडे'ऋज-सरलं कृतं मायारहितं तपो येन सऋजकतः, अशठानष्ठानकारीत्यर्थः । पुनः कीदृशः ? 'नियाणछिन्ने' छिन्ननिदानो निदानशल्यरहित इत्यर्थः । पुनः कीदृशः ? 'अकामकामो' न विद्यते कामस्य कामोऽभिलाषो यस्य सोऽकामकामः कामाभिलाषरहितः। पुनः कीदृशः? 'अन्नाएसी' अज्ञातैषी, यत्र कुले तस्य साधोस्तपोनियमादिगुणो न ज्ञातस्तत्रैषयते ग्रासादिकं गृहितुं वाञ्छते इत्येवंशीलोऽज्ञातैषी । य एवंविधः स भिक्षुरित्युच्यते । अनेन सिंहतया निष्क्रम्य सिंहतया विहरणं भिक्षुत्वनिबन्धनं प्रोक्तं साधूनाम् । चतुर्भङ्गी यथा
"सिंहत्ताए निक्खमंति, सिंहत्ताए विहरंति, सियालताए निक्खमंति सियालत्ताए विहरंति । सिंहत्ताए निक्खमंति, सियालत्ताए विहरंति,
सियालत्ताए निक्खमंति, सिंहत्ताए विहरंति ॥" एवं चतुर्भङ्गयुक्ता । तत्र सर्वोत्तमा सिंहतया निःक्रमणं सिंहतया च पालनम्, तच्च यथा स्यात्तथा ॥१॥--....--
पुनराह...--राओवरयं चरिज्ज लाढे, विरए वेयवियायरक्खिए ।
पन्ने अभिभूय सव्वदंसी, जे कम्हिवि न मुच्छिए स भिक्खू ॥२॥ १ एकस्य कृतो धर्मः ॥२ सिंहतया निष्क्रमन्ति सिंहतया विहरन्ति, शृगालतया निष्क्रमन्ति शृगालतया विहरन्ति, सिंहतया निष्क्रमन्ति शृगालतया विहरन्ति, शगालतया निष्क्रमन्ति सिंहतया विहरन्ति ।