SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ २४४] [ उत्तराध्ययनसूत्रे एवममुना प्रकारेण ते सर्वेऽपि क्रमशोऽनुक्रमेण षडपि जीवा बुद्धा:- प्रतिबोधं प्राप्ताः, किं कृत्वा ? विपुलं विस्तीर्णं राज्यं त्यक्त्वा, च पुनर्दुस्त्यजान् कामभोगांस्त्यक्त्वा । कथंभूतास्ते ? सर्वे निर्विषया विषयाभिलाषरहिताः, पुनः कथंभूताः ? निरामिषाः स्वजनादिसङ्गरहिताः, पुनः कीदृशाः ? निष्परिग्रहा बाह्याभ्यन्तरपरिग्रहरहिताः ॥ ४९ ॥ पुनस्ते जीवाः किं कृत्वा प्रतिबोधं प्राप्ताः ? ' सम्मं ' सम्यक् प्रकारेण धर्मं साधुधर्मं विज्ञाय, पुनर्वरान् दुर्लभान् प्रधानान् कामगुणांस्त्यक्त्वा, कामस्य मदनस्य गुणकारित्वात्कामवृद्धिकरत्वाद्गुणाः कामगुणास्तान् कामगुणान् स्रक्चन्दनवनितादीन् कामोद्दीपनौषधादींस्त्यक्त्वा । अत्र पुनः कामगुणग्रहणं तेषामतिशयख्यापनार्थम् । पुनः किं कृत्वा ? घोरमधीरपुरुषैर्दुरनुचरं, यथाख्यातं तीर्थकरोद्दिष्टं द्वादशविधं तपः प्रगृह्य - भावतोङ्गीकृत्य । पुनः कथंभूतास्ते सर्वे ? घोरपराक्रमाः, घोरः पराक्रमः धर्मानुष्ठानविधिर्येषां ते घोरपराक्रमाः । पुनः कीदृशास्ते सर्वे ? धर्मपरायणा धर्मध्याने तत्परा इत्यर्थः । पुनः कीदृशास्ते ? जन्ममृत्यु - भयोद्विग्ना जन्ममरणभीतिभीताः । पुनस्ते सर्वे किं कर्तुमिच्छ्वः ? दुःखस्यान्तं मोक्षं गवेषणो मोक्षाभिलाषिण इत्यर्थः ॥ ५१ ॥ सासणे वियमोहाणं, पुवि भावण भाविया । अचिरेणेव कालेणं, दुक्खस्संतमुवागया ॥ ५२ ॥ पुनस्ते षडपि जीवा अचिरेणैव कालेन स्तोककालेन दुःखस्य संसारस्यान्तमवसानमर्थान्मोक्षमुपागता मोक्षं प्राप्ताः । कीदृशास्ते ? विगतमोहानां वीतरागाणां शासने तीर्थे पूर्वं पूर्वस्मिन् भवे भावनया सम्यक्क्रियाभ्यासरूपया द्वादशविधमनः परिणतिरूपया भाविता रञ्जितात्मानः ॥ ५२ ॥ अथ तेषां सर्वेषां षण्णामपिजीवानां नामान्याह - - राया य सह देवीए, माहणो य पुरोहिओ । माहणी दारगा चेव, सव्वे ते परिनिव्वुडे ॥ ५३ ॥ त्तिबेमि ॥ राजा इषुकारी, देव्या पट्टराज्ञ्या कमलया सह, ब्राह्मणो भृगुनामा पुरोहितो राज्ञः पूज्यः, पुनर्ब्राह्मणी पुरोहितस्य पत्नी यशा, च पुनर्दारकौ ब्राह्मणब्राह्मण्योः पुत्रौ, एते सर्वे परिनिर्वृता मोक्षं प्राप्ताः । इत्यहं ब्रवीमि । इति सुधर्मास्वामी जम्बूस्वामिनं प्राह ॥ ५३ ॥ इतीषुकारीयमध्ययनं चतुर्दशं सम्पूर्णम् ॥ १४ ॥ इति श्रीमदुत्तराध्ययनसूत्रार्थदीपिकायामुपाध्यायश्रीलक्ष्मीकीर्तिगणिशिष्यलक्ष्मीवल्लभगणिविरचितायामिषुकारीयस्याध्ययनस्यार्थः सम्पूर्णः ॥ १४ ॥
SR No.022592
Book TitleUttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorVajrasenvijay, Bhagyeshvijay
PublisherBhadrankar Prakashan
Publication Year2001
Total Pages350
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy