SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ चतुर्दशमिषुकारीयमध्ययनम् १४] [२४३ पीड्यमानं दृष्ट्वा । यतो हि पक्षिणो यदा गृह्यन्ते, तदा तान् भक्ष्यं दर्शयित्वा पाशादिना बध्यन्ते आमिषाहारी शकुनिस्तु आमिषदर्शनेनैव लोभयित्वा मीनवद्वध्यते । सह आमिषेण आमिषरसास्वादलोभेन वर्तते इति सामिषस्तं सामिषम् ॥ ४६ ॥ गिद्धोवमे उनच्चा णं, कामे संसारवणे। उरगो सुवन्नपासे व्व, संकमाणो तणुं चरे॥४७॥ हे राजन् ! त्वमपि विषयेभ्यः शङ्कमानः सन् तनुं स्वल्पं यतनया चरेरिति-चरस्व । विषयेभ्यो भीतिः पदे पदे विधेयेत्यर्थः । किं कृत्वा ? गृद्धोपमान् पूर्वोक्तसामिषकुललोपमान् विषयलोलुपान् जनान् ज्ञात्वा । तु पुनः कामान् संसारवर्द्धिकान् ज्ञात्वा, विषयलोलुपाः कामैः पीडिताः संसारे भ्रमन्तीति ज्ञात्वा । त्वं क इव शङ्कमानः सन् ? सुपर्णपार्वे - गरुडसमीपे, उरग इव-सर्प इव ।यथा गरुडपार्वे सर्पः शनैः शनैः शङ्कमानः सन् चरति, यथा गरुडो न जानाति तथा अविश्वासी सन् स्वल्पं तनु यथास्यात्तथा चलति, तथा त्वमपि गरुडोपमानां विषयाणां विश्वासं मा कुर्याः । अत्र हि विषयाणां गरुडोपमानं संयमरूपजीवितापहारकत्वात् । नरस्य हि भोगलोलुपत्वादुरगोपमानम्, यत उरगो भोग्येवोच्यते, विषयास्तु दृश्यमानाः सुन्दरा गरुडाकाराः, भोगिनां हि विषयेभ्य एव मृत्यु स्यात्, तस्माद्विषयेभ्यः शङ्कनीयमित्यर्थः ॥ ४७॥ नागु व्व बंधणं छित्ता, अप्पणो वसहि वए। एयं पत्थं महारायं, उसुयारि त्ति मे सुयं ॥ ४८ ॥ हेराजन् ! नाग इव हस्तीव बन्धनं छित्वाऽऽत्मनो: वसतिं स्वकीयस्थानं विन्ध्याटवीं याति, तथा त्वमपिबलवत्त्वान्नागो विषयशृङ्खलांछित्वात्मनः स्थानमुक्तिं व्रजेः,धीरपुरुषागजतुल्याः विषयाःशृङ्खलातुल्याः, मुक्तिविन्ध्याटवीवात्मगजस्य स्थानमुक्तम् । हेइषुकारि-महाराज ! मया साधुमुखादिति पथ्यं हितं श्रुतमस्ति, नाहं स्वबुद्धया ब्रवीमीत्यर्थः ॥४८॥ चइत्ता विउलं रज्जं, कामभोगे य दुच्चए । निव्विसया निरामिसा, निन्नेहा निप्परिग्गहा ॥ ४९ ॥ सम्मं धम्म वियाणित्ता, चिच्चा कामगुणे वरे। तवं पगिज्झऽहक्खायं, घोरं घोरपरक्कमा ॥ ५० ॥ एवं ते कमसो बुद्धा, सव्वे धम्मपरायणा । जम्ममच्चुभउविग्गा, दुक्खस्संतगवेसिणो ॥५१॥ तिसृभिः कुलकम्।
SR No.022592
Book TitleUttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorVajrasenvijay, Bhagyeshvijay
PublisherBhadrankar Prakashan
Publication Year2001
Total Pages350
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy