________________
२४२]
[उत्तराध्ययनसूत्रे एवमेव वयं मूढा, कामभोगेसु मुच्छिया ।
डज्झमाणं न बुज्झामो, रागद्दोसग्गिणा जगं ॥४३॥ एवममुनैव दृष्टान्तेन वयं मूढा अविवेकिनः कामभोगेषु मर्छिताः सन्तो रागद्वेषाग्निना जगद्दह्यमानं न बुध्यामहे, न जानीमहे वयमिति बहुवचनाद्बहवोऽस्मादृशा जीवा इति ज्ञापनार्थं ॥ ४३ ॥
भोगे भुच्चा वमित्ता य, लहुभूय विहारिणो ।
आमोयमाणा गच्छंति, दिया कामकमा इव ॥४४॥ धन्यास्ते जीवा इत्यध्याहारः । ये जीवा भोगान् भुङ्क्त्वा , पुनरुत्तरकाले वान्त्वा त्यक्त्वा, अर्थात् साधवो भूत्वा, आमोदमानाः साध्वाचरणीयानुष्ठानेन सन्तुष्टाः सन्तो गच्छन्ति-विचरन्ति, वाञ्छितं स्थानं व्रजन्ति ते जीवाः । के इव ? कामक्रमा द्विजा इव पक्षिण इव, कामं स्वेच्छया क्रमो विचरणं येषां ते कामक्रमाः स्वेच्छाचारिणः । यथा द्विजाः स्वेच्छया अप्रतिबद्धविहारत्वेन यत्र यत्र रोचन्ते तत्र तत्रामोदमाना भ्राम्यन्ति, एवमेतेऽप्यनभिष्वङ्गभावा यत्र यत्र संयमनिर्वाहस्तत्र तत्र यान्तीत्याशयः । पुनः कथंभूतास्ते जीवाः ? लघुभूतविहारिणः, लघुर्वायुस्तद्भूतास्तदुपमाःसन्तो विहरन्तीत्येवंशीला लघुभूतविहारिणः । अथवा लघुश्चासौ भूतश्च लघुभूतो वायुस्तद्वद्विहरन्तीत्येवंशीला लघुभूतविहारिणः, वायुरिवाऽप्रतिबद्धविहारिणः ॥४४॥
इमे य बद्धा फंदंति, मम हत्थज्जमागया ।
वयं च सत्ता कामेसु, भविस्सामो जहा इमे ॥ ४५ ॥ हे आर्य ! इमे च प्रत्यक्षाः शब्दरूपरसगन्धस्पर्शादयः पदार्था बद्धा नियन्त्रिताः सुदृढीकृता मम हस्ते पुनस्तव हस्ते आगता अपि फन्दन्ति - स्पन्दन्ति, अस्थितिधर्मतया गत्वरा दृश्यन्ते, सुरक्षिता अपि यान्तीत्यर्थः । एतादृशेषु । च गत्वरेषु कामेष्वज्ञा वयं सक्ताः सञ्जाता-लिप्ता जाताः । तस्मादेतेषु गत्वरेषु कः स्नेहः ? हे स्वामिन्नावां यथेमे पुरोहितादयश्चत्वारो जातास्तथा भविष्यामः ॥ ४५ ॥
सामिसं कुललं दिस्स, बज्झमाणं निरामिसं ।
आमिसं सव्वमुज्झित्ता, विहरिस्सामि निरामिसा ॥४६॥ हे राजन्नहं सर्वमामिषमभिष्वङ्गहेतुं धनधान्यादिकं 'उज्झित्ता' त्यक्त्वा निरामिषा त्यक्तसङ्गा सत्यप्रतिबद्धविहारतया विहरिष्यामि । किं कृत्वा ? सामिषमामिषसहितं कुललं गृद्धमपरं पक्षिणं वा परित्यन्यैर्बध्यमानं पीड्यमानं दृष्ट्वा । सामिषः पक्षी ह्यामिषाहारिपक्षिभिः पीड्यते, अथवा सामिषं सस्पृहं भोजनाद्यर्थे लुब्धं कुललं-पक्षिणं परैर्बध्यमानं