________________
चतुर्दशमिषुकारीयमध्ययनम् १४]
[२४१ सव्वं जगं जई तुम्हं, सव्वं वावि धणं भवे ।
सव्वंपि ते अपज्जत्तं, नेव ताणाय तं तव ॥३९॥ हे राजन् ! यदि सर्वं जगत् समस्तोऽपि भूलोकस्तव भवेत्, तवायत्तः स्यात्, वा अथवा सर्वमपि धनं रजतस्वर्णरत्नादिकमपि तव भवेत् । तत्सर्वं जगत्, पुनः सर्वमपि धनं ते तवाऽपर्याप्तं भवेत्, तवेच्छापूरणायाऽसमर्थं स्यात्, यत इच्छाया अनन्तत्वात्, पुनस्तत्सर्वं जगत्, तत्सर्वं धनं च त्राणाय मरणभयाद्रक्षणाय तव न भवेत्, यदि जगद्धनं चेच्छापूरणाय, मरणादक्षणायाऽसमर्थम्, तदा किं ब्राह्मणपरित्यक्तधनग्रहणेनेत्यर्थः ॥३९॥
मरिहिसि रायं जया तया वा, मणोरमे कामगुणे पहाय । एक्को हु धम्मो नरदेव ताणं, न विज्जई अन्नमिहेह किंचि ॥४०॥
हे राजन् ! यदा तदा - यस्मिंस्तस्मिन् काले मनोरमान्-मनोहरान् कामगुणान् प्रहाय प्रकर्षेण त्यक्त्वा मरिष्यसि, म्रियमाणस्य पुरुषस्य धनादि सार्थे न भवति । हे नरदेव !'हु' इति निश्चयेनैको धर्म एव त्राणं - शरणं विद्यते । इह जगति, इह मृत्यौ वा जीवस्यान्यत्किञ्चित् त्राणं न विद्यते ॥ ४०॥ नाहं रमे पक्खिणि पंजरे वा, संताणछिन्ना चरिस्सामि मोणं । अकिंचणा उज्जुकडा निरामिसा, परिग्गहारंभनिअत्तदोसा ॥ ४१ ॥
अहमित्यध्याहारः। हे राजन्नहन रमे, रतिन प्राप्नोमि, वाशब्द इवार्थे , पक्षिणी पञ्जरे इव, यथा पक्षिणी पञ्जरेरतिं न प्राप्नोति, अहंसन्तानछिन्ना सती मौनं मुनीनामाचारंचरिष्याम्यङ्गीकरिष्यामि। छिनःसन्तानः स्नेहसन्ततिर्यया सा छिन्नसन्ताना,पुनः कथंभूता सत्यहम् ?अकिचना सचित्ता-ऽचित्तद्विविधपरिग्रहरहिता। पुनरहं कथंभूता सती ? ऋजु-मायारहितं कृतं तपो-धर्म यया साऋजुकृता । पुनः कथंभूता सती? निरामिषा सती, नि:क्रान्ता आमिषाविषयादिपदार्था यस्मात् सेति निरामिषा, विषयादयः पदार्था हि विषयिजीवानां गृद्धि हेतुत्वादामिषोपमाएव,तस्मादहंनिर्विषयासती,पुनः कथंभूतासत्यहं? परिग्रहारम्भनिवृत्त-दोषा, परिग्रहश्चारम्भश्च परिग्रहारम्भौ, तौ निवृत्तौ दोषौ यस्याः सा परिग्रहारम्भनिवृत्तदोषा ॥४१॥
दवग्गिणा जहा रणे, डज्झमाणेसु जंतुसु।
अन्ने सत्ता पमोयंति, रागद्दोसवसं गया ॥ ४२ ॥ अपरं च यथारण्ये दवाग्निना जीवेषु दह्यमानेषु सत्स्वन्येऽदग्धाः सत्त्वाः प्रमोदन्तेहर्षिता भवन्ति, मनस्येवं जानन्त्येते ज्वलन्तु, वयमदग्धास्तिष्ठामः । कथंभूतास्ते ? रागद्वेषयोर्वशं गता - रागद्वेषग्रस्ताः ॥ ४२ ॥ ૩૧