________________
२४०]
[उत्तराध्ययनसूत्रे किं कृत्वा धीरा भिक्षाचर्यां चरन्ति ? कामगुणान् प्रहाय-प्रकर्षेण हित्वा । के किं यथा ? यथाशब्द इवार्थे , के किमिव ? रोहिता-मत्स्या रोहितजातीयमीना अबलं जीर्णं जालमिव, यथा बलिष्ठमत्स्या जीर्णं जालं छित्त्वा निर्भयस्थाने चरन्ति, तथा धीराः कामगुणान् पाशसदृशांस्त्यक्त्वा भिक्षाचर्यामाद्रियन्ते, अहमपीत्थमेव चरिष्यामीति भावः ॥ ३५ ॥
इति भृगुवचनं श्रुत्वा ब्राह्मण्याहनहेव कुंचा समइक्कमंता, तयाणि जालानि दलित्तु हंसा ।। पलिंति पुत्ता य पई य मज्झं, तेहं कहं नाणुगमिस्समेक्का ॥ ३६ ॥
पुत्रौ द्वावपि, पति गुः पुरोहितः, एते त्रयोऽपि मह्यमिति मां दलयित्वा मत्सम्बन्धिस्नेहजालं भोगाभिष्वङ्गजालं छित्त्वा पलिन्ति-परियान्ति, परि-समन्ताधान्ति संयमाध्वनि चरन्तीत्यर्थः । एते के इव ? क्रौञ्चाः क्रौञ्चपक्षिणः हंसा हंसपक्षिणो वा, ते इव, यथा क्रौञ्चपक्षिणो हंसपक्षिणश्च तानि विस्तीर्णानि जालानि दलयित्वा-भित्वा समतिक्रामन्तो नानाप्रदेशानुल्लङ्घयन्तो नभसि परियान्ति-गगने परियान्ति, स्वेच्छया विचरन्ति । अत्र हि विषयसुखं जालोपमम्, निरुपलेपत्वात्साधुवर्त्म नभःकल्पम्, उत्तमजीवानां क्रौञ्चविहङ्गहंसविहङ्गोपमानम् । यदैते त्रयोऽपि मां त्यक्त्वा व्रजन्ति, तदाहमेकाकिनी तान् कथं नानुगमिष्यामि ? अपि त्वनुगमिष्याम्येव ॥३६ ॥
अथ यदा चतुर्णा प्रव्रज्यायां मनोऽभूत् तदा किं समभूदित्याहपुरोहियं तं ससुयं सदारं, सुच्चाऽभिनिक्खम्म पहाय भोए । कुडुंबसारं विउलुत्तमं तं, रायं अभिक्खं समुवाय देवी ॥ ३७ ॥
राजानं तमिषुकारिणं देवी कमला अभीक्ष्णं-वारंवारं समुवाच, सम्यक् प्रकारेण शिक्षापूर्वकमुवाच ।किं कृत्वा ? पुरोहितं भृगु ससुतं-पुत्रसहितम्, सदारं-सपत्नीकं भोगान् प्रहाय-प्रकर्षेण त्यक्त्वा, पुनर्विपुलं विस्तीर्णमुत्तमं तं कुटुम्बसारम् प्रहाय-त्यक्त्वा, कुटुम्बं स्वजनवर्ग, सारं धनधान्यादिकम्, उभयमपि त्यक्त्वा, अभिनिष्क्रम्य गृहान्निर्गत्य प्रव्रजितमिति श्रुत्वा; तस्य पुरोहितस्य धनादिकं गृह्णन्तं राजानं राज्ञी प्राहेत्यर्थः ॥३७॥ राज्ञी किमुवाचेत्याह
वंतासी पुरिसो रायं, न सो होइ पसंसिओ।
माहणेण परिच्चत्तं, धणं आयाउमिच्छसि ॥ ३८ ॥ - हे राजन् ! यो वान्ताशी स पुरुषः प्रशंसनीयो न भवेत्-श्लाघ्यो न भवेत् । हे राजन् ! ब्राह्मणेन परित्यक्तं धनं त्वमादातुमिच्छसि, ब्राह्मणेन त्यक्तं धनं वान्ताहारसदृशं गहित्वा त्वं श्लाघ्यो न भविष्यसीत्यर्थः । वान्तं वदनादुद्गतमाहारमश्नातीत्येवंशीलो वान्ताशी वान्ताहारभोक्तेत्यर्थः ॥ ३८ ॥