________________
चतुर्दशमिषुकारीयमध्ययनम् १४]
[२३९ "लाभालाभे सुखे दुःखे, जीविते मरणे तथा ।
शत्रौ मित्रे तृणे स्त्रैणे, साधवः समचेतसः ॥ १ ॥" यस्मिन्साधुधर्मे रसेषु भोगेषु जीवितव्येषुनिःस्पृहत्वं तन्मुनित्वमङ्गीकरिष्यामि॥३२॥
अथ पुनर्ब्राह्मणी प्राहमा हु तुमं सोयरियाण संभरे, जुन्नो व हंसो पडिसोत्तगामी । भुंजाहि भोगाइ मए समाणं, दुक्खं खु भिक्खायरियाविहारो ॥३३॥
हे पुरोहित ! त्वं मया समं भोगान् भुक्ष्व । 'हु' इत्यलङ्कारे, 'णं' इत्यपि । हे स्वामिस्त्वं पुनः सौदर्याणां - सहोदराणां भ्रातृणां स्वजनसम्बन्धिनां गृहे स्थितानां मा स्मार्षीः । कोऽर्थः ? त्वं मुनिर्भूत्वा पश्चाद् दुःखितः सन् गृहस्थान् स्वबन्धून् स्मरिष्यसि, तस्मान्मया सार्धं विषयसुखं भुञ्जानो गृहे तिष्ठेत्यर्थः । 'खु' इति निश्चयेन भिक्षाचर्याविहारो दुःखंदुःखहेतुरेवास्ति । भिक्षाचरत्वमसहमानस्त्वं गृहवासं स्मरिष्यसीति भावः । त्वं क इव 'सोदरान् स्मरिष्यसि ? जीर्णो हंस इव, वृद्धो हंसो यथा प्रतिश्रोतोगामी सन्मुखजलप्रवाह तरंस्तत्र तरणाशक्तः पश्चादनुश्रोतोजलतरणं स्मरति । मनसि खिन्नः सन्निति जानाति मया किमर्थं सन्मुखजलप्रवाहतरणमारब्धम् ? जलवहनमार्गेण सह तरमेव मम श्रेयस्तथा त्वमपि मा भूरित्यर्थः ॥ ३३ ॥
अथ भृगुपुरोहित आहजहा य भोई तणुअं भुअंगो, निम्मोयणि हिच्च पलेइ मुत्तो। एमए जाया पयहंति भोए, तेऽहं कहं नाणुगमिस्समिक्को ॥३४॥ __ 'भोई' इति हे भवति ! हे ब्राह्मणि ! भुजङ्गः सर्पस्तनुजां-शरीरादुत्पन्नां निर्मोचनीं -निर्मोकं कञ्चकं हित्वा मुक्तः सन् प्रयाति, एवमेतौ जातौ पुत्रौ भोगान् प्रजहीतः । तौ भोगत्यागिनौ पुत्रौ प्रत्यहमेकाक्री सन् कथं नानुगमिष्यामि ? पुत्राभ्यां विहीनस्यैकाकिनो मम कीदृशो गृहवासः ? धन्यौ तौ पुत्रौ, यौ तरुणावेव कञ्चुकमिव विषयसुखं त्यक्त्वा भुजङ्गमवद् व्रजत इत्यर्थः ॥ ३४ ॥' छिदित्तु जालं अबलं व रोहिया, मच्छा जहा कामगुणे पहाय । धोरेयसीला तवसा उदास, धीरा हु भिक्खायरियं चरंति ॥ ३५ ॥
हे ब्राह्मणि ! धीरा - धैर्यवन्तो जना 'हु' इति निश्चयेन भिक्षाचर्या-भिक्षावृत्ति साधुधर्मं चरन्ति । कीदृशा धीराः ? तपसा उदाराः, अथवा कीदृशी भिक्षाचाँ ? तपसा उदाराम्, तपसा प्रधानाम्, प्राकृतत्वाद्विभक्ति-लिङ्गव्यत्ययः । पुनः कीदृशा धीराः ? धौरेयशीलाः, धौरेयाणां धुरंधराणामिव शीलमुद्वोढभारोद्वहनसामर्थ्य येषां ते धौरेयशीलाः। १ सोदरान् स्मरसि मनसि खिन्नः सन्निति जानाति मया स्मरिष्यसि : L.D. ॥