________________
२३८]
[उत्तराध्ययनसूत्रे शाखाभिरेव समाधि - स्वास्थ्यं शोभा वा लभते, छिन्नाभिः शाखाभिस्तमेव वृक्षं जनाः स्थाणुकील वदन्ति । शाखाहीनस्य वृक्षस्य स्थाणुत्वं स्यात्, तथा ममापि पुत्राभ्यां वियुक्तस्य गृहे-वासे स्थितस्य समाधिर्नास्तीत्यर्थः ॥२९॥
पंखाविहूणो व्व जहेव पक्खी, भिच्चविहूणो व्व रणे नरिंदो। विवन्नसारो वणिओव्व पोए, पहीणपुत्तो मि तहा अहंपि ॥ ३० ॥
व्व शब्दो दृष्टान्तसमुच्चये, हे प्रिये ! इहास्मिन् लोके पक्षाभ्यां विहीन: पक्षी यादृशः स्यात्, पक्षहीनो हि पक्षी आकाशमार्गोल्लङ्घनायाऽशक्तो येन केनापि हिंस्त्रेण पराभूयते । पुना रणे- सङ्ग्रामे भृत्यैः- सेवकैविहीनो नरेन्द्रो- नृपतिरिख रिपुभिः पराभूयते।पुनर्वणिक्व्यापारीव, यथा पोते-प्रवहणे भग्ने सतीत्यध्याहारः, विपन्नसारो - विगतसर्वदव्यभाण्डो विषादंकरोतीति शेषः । तथाहमपि प्रहीणपुत्रः-प्रव्रजितपुत्रो विषादवान् भवामीति शेषः॥३०॥
इति पुरोहितप्ररूपितं वचनं श्रुत्वा वासिष्ठ्याहसुसंभिया कामगुणा इमे ते, संपिंडिया अग्गरसप्पभूया । भुंजामु ता कामगुणे पगामं, पच्छा गमिस्सामु पहाणमग्गं ॥३१॥
हे स्वामिन् 'ते' तवेमे प्रत्यक्षं दृश्यमाणाः कामगुणा:- पञ्चेन्द्रियसुखदाः पदार्थाः सद्वस्त्रसरसमिष्टान्नपुष्पचन्दननाटकगीततालवेणुवीणादयः सुसंभृताः सन्ति, सम्यक् संस्कृताः सज्जीकृताः सन्ति । पुनः कामगुणाः सम्पिण्डिताः- पुञ्जीकृताः सन्ति, न तु यतस्ततः पतिताः सन्ति, किन्त्वेकत्र राशीकृता एव तिष्ठन्ति । पुनः कीदृशाः कामगुणाः ? अग्ररसप्रभूताः, अग्रः-प्रधानो रसो येभ्यस्तेऽग्ररसाः, शृङ्गाररसोत्पादका इत्यर्थः । यदुक्तम्
रतिमाल्यालङ्कारैः, प्रियजनगन्धर्वकामसेवाभिः ।
उपवनगमनविहारैः, शृङ्गाररसः समुद्भवति ।। १ ॥ इत्युक्ते, अग्ररसाश्च ते प्रभूताश्चाग्ररसप्रभूताः प्रचुरा इत्यर्थः । अथवाग्रयरसेन-शृङ्गाररसेन प्रचुरास्तान् कामगुणान् प्रकामं यथेच्छं भुञ्जीवहि, पश्चाद् भुक्तभोगसुखौ भूत्वा वृद्धत्वे प्रधानमार्ग-प्रव्रज्यारूपं मोक्षमार्गं गमिष्यावः ॥ ३१ ॥
अथ भृगुब्राह्मणी प्रत्याहभुत्ता रसा भोइ जहाइ णे वओ, न जीवियट्ठा पजहामि भोए । लाभं अलाभं च सुहं च दुक्खं, संविक्खमाणो चरिस्सामि मोणं ॥३२॥
भो इति हे भवति ! हे ब्राह्मणि ! रसाः शृङ्गारादयो भोगाश्च भुक्ताः सन्तो 'णे' इति नोऽस्मान् जहति-त्यजन्ति, वयो-यौवनमपि त्यजति । हे ब्राह्मणि ! भोगान् जीवितव्या) न प्रजहामि, किन्तु लाभम्, च पुनरलाभम्, च पुनः सुखम्, च पुनर्दुःखं संविक्खमाणाः समतयेक्षमाणः समभावेन पश्यन्त्रहं मौनं चरिष्यामि । मुनेः कर्म मौनं, मुनयो हि