________________
चतुर्दशमिषुकारीयमध्ययनम् १४]
[२३७ हे पुत्रौ ! द्वयं च द्वयं च द्वये, आवां युवां च सर्वेऽपि सम्यक्त्वसंयुताः सन्त एकतएकत्र गृहवासे सम्यक् सुखेनोषित्वा गृहस्थाश्रमं संसेव्य पश्चाद् वृद्धावस्थायां गमिष्यामः, ग्रामनगरारण्यादिषुमासकल्पादिक्रमेण प्रव्रजिष्याम इत्यर्थः । किं कुर्वाणा: ? कुले कुले गृहेगृहे अज्ञाते उञ्छवृत्त्या गोचर्यया भिक्ष्यमाणा भिक्षां गृह्णन्तो भिक्षवो भविष्याम इत्यर्थः ॥२६॥ तदा तौ पुत्रौ जनकं प्रत्याहतुः
जस्सत्थि मच्चुणा सक्खं, जस्स वत्थि पलायणं ।
जो जाणे न मरिस्सामि, सो हु कंखे सुए सिया ॥२७॥ • हे तात ! 'हु' इति निश्चयेन स एव पुरुष इति काङ्क्षतीति प्रार्थयति । 'सुए' इति श्व आगामिदिने प्रभाते इदं स्यात्, अद्य न जातं तर्हि किं ? कल्ये स्यादित्यर्थः । इति स चिन्तयति । स इति कः ? यस्य पुरुषस्य मृत्युना सह - कालेन सह सख्यं - मित्रत्वमस्ति, य एवं जानाति मृत्युर्मम सखा वर्तते । चशब्दः पुनरर्थे , पुनर्यस्य पुरुषस्य मृत्योः पलायनमस्ति, यः पुरुष एवं जानाति मृत्युमें - मम किं करिष्यति । यदा मृत्युरायास्यति तदाहं प्रपलाय्य कुत्रचिदन्यत्र यास्यामि, अहं मृत्युगोचरो न भविष्यामि । पुनर्य एवं जानाति, अहं न मरिष्यामि, अहं चिरंजीव्यस्मि ॥ २७ ॥
अज्जेव धम्म पडिवज्जयामो, जहिं पवना न पुणब्भवामो । अणागयं नेव य अस्थि किंचि, सद्धाखमं ने विणइत्तु रागं ॥२८॥
भोतात!अद्यैवतं धर्मवयंप्रतिपद्यामहे,आर्षत्वात्। किं कृत्वा ? रागस्नेहस्वजनादिषु प्रेम, "विणइत्तु' इति विनीय - स्फोटयित्वा, कीदृशं धर्म ? 'ने' इति नोऽस्माकं श्रद्धाक्षम श्रद्धया-तत्त्वरुच्या क्षमो-योग्यस्तम्।यतो हि साधुधर्मे स्नेहः सर्वथा निवार्यः, तत्त्वरुचिश्च कार्या, तया हीनो हि साधुधर्मो निष्फलः, यत्तदोनित्याभिसम्बन्धात्,तं कं धर्म ? जर्हि' इति यस्मिन् धर्म प्रपन्नाः सन्तो न पुनर्भवामः, पुनः संसारे नोत्पत्स्यामः ।यद्भवता पुरोक्तं भोगान् भुक्त्वा पश्चात्प्रवजिष्यामः । तस्योत्तरं श्रृणु-हे तात ! अनागतमप्राप्तवस्तुविषयादिसुखं किञ्चिन्न चैवास्य जीवस्यास्ति, सर्वेषां भावानामनन्तशः प्राप्तत्वात् ॥२८॥
इति स्वपुत्रयोरुपदेशं श्रुत्वा भृगुः प्रतिबुद्धः सन् ब्राह्मणी प्रत्याह
पहीणपुत्तस्स हु नत्थि वासो, वासिटिभिक्खायरियाइ कालो। __...साहार्हि रुक्खो लहइ समाहि, छिन्नाहिं साहार्हि तमेव खाणुं ॥२९॥
हे वाशिष्ठि ! वशिष्ठमुनिगोत्रोत्पन्ने ब्राह्मणि प्रिये ! प्रहीणपुत्रस्य-पुत्राभ्यां त्यक्तस्य 'हु' इति निश्चयेन मम वासो-गृहे वसनं नास्ति । ममेति पदमध्याहार्यम् । हे प्रिये ! भिक्षाचर्याया अयं कालोऽयमवसरोऽस्तीति शेषः । उक्तमर्थमर्थान्तरन्यासेन दृढयति-वृक्षः