________________
२३६]
[उत्तराध्ययनसूत्रे तदा पुरोहितोऽपृच्छत्
केण अब्भाहओ लोओ, केण वा परिवारिओ।
का वा अमोहा वुत्ता, जाया चिंतापरो हुमि ॥२२॥ हे पुत्रौ ! केन लोकोऽभ्याहतः ? वाऽथवा केनायं लोकः परिवेष्टितः ? वाऽथवा का अमोघा अवश्य भेदिका शस्त्रधारोक्ता ? हे पुत्रावहमिति चिन्तापरो भवामि ॥ २२ ॥ तदा पुत्रौ प्रत्येक प्रश्नानामुत्तरं वदत:
मच्चुणाब्भाहओलोओ, जराए परिवारिओ।
अमोहा रयणी वुत्ता, एवं ताय वियाणह ॥ २३ ॥ हे तात ! त्वमेवममुना प्रकारेण जगज्जानीहि । एवमिति कथं ? तदाह-लोकोऽयं मृगरूपो मृत्युना व्याधेनाभ्याहत:-पीडितः, स च मृत्युर्हि सर्वस्य जन्तोः पृष्ठे धावति । जरया - वृद्धत्वेन परिवेष्टितः । जीर्यते शरीरमनयेति जरा, पलितमात्रमिह जरा नोच्यते, बल - वीर्य-पराक्रमाणां हानिरेव जरा, तया सर्वं जगत् परिवेष्टितमस्ति । तयैव मृत्युर्जगज्जन्तुं घातयति । अमोघाः शस्त्रधारा रात्रय उक्ताः, न केवला रात्रय एव भवन्ति किन्तु दिनान्यपि भवन्ति । परमत्र रात्रिग्रहणं भयोत्पादनार्थम् । स्त्रीलिङ्गशब्दस्य अमोघा इत्यस्योपमार्थ ज्ञेयम् ॥२३॥
जा जा वच्चइ रयणी, न सा पडिनियत्तई।
अहम्मं कुणमाणस्स, अफला जंति राईओ ॥२४॥ हे तात ! या या रजन्यस्तत्सम्बन्धा दिवसाश्च व्युत्क्रामन्ति - व्रजन्ति, तास्ता रजन्यो न प्रतिनिवर्तन्ते, पुनर्व्याघुट्य नायान्ति । अधर्म कुर्वतः पुरुषस्य रात्रयो दिवसाश्चाफलानिरर्थका यान्ति तस्माद्धर्माचरणेन सफला विधेया इत्यर्थः ॥२४॥ तदेव पुनरप्याहतुः
जा जा वच्चइ रयणी, न सा पडिनियत्तई।
धम्मं च कुणमाणस्स, सफला जंति राईओ॥२५॥ पूर्वार्धस्यार्थस्तथैव,हे तात! धर्मं कुर्वाणस्य पुरुषस्य रात्रयो दिवसाश्च सफला यान्ति, धर्माचरणं विना निष्फला इत्यर्थः । प्राकृतत्वाद्वचनव्यत्ययः । नृजन्मनः फलं धर्माचरणम्, धर्माचरणं हिव्रतं विना न स्यात्, अतश्चावां व्रतं गृहीष्यावः ।नृजन्मनि रात्रिदिवसान् सफलान् करिष्याव इति भावः ॥२५॥
तद्वचनालब्धबोधो भृगुपुरोहितः पुत्रौ प्रत्याहएगओ संवसित्ताणं, दुहओ समत्तसंजुया । पच्छा जाया गमिस्सामो, भिक्खमाणा कुले कुले ॥ २६ ॥