SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ चतुर्दशमिषुकारीयमध्ययनम् १४] [ २३५ महातिलेषूत्तमतिलेषु, यन्त्रादिमथनसंयोगात्तिलेभ्यस्तैलं पूर्वमप्रत्यक्षमविद्यमान - मप्युत्पद्यते । अरणिकाष्टादधः काष्टसंयोगाभावे चैतन्यरूपजीवाभाव इत्यर्थः ॥ १८ ॥ अथैतस्योक्तस्योत्तरं तावाहतुः नो इंदियगिज्झु अमुत्तभावा, अमुत्तभावावि य होइ निच्चो । अज्झत्थहेऊं निययस्स बंधो, संसारहेउं च वयंति बंधं ॥ १९ ॥ तात ! अयमात्मा अमूर्त्तभावादिन्द्रियग्राह्यो 'नो' इति नास्ति । शब्दरूपरसगन्धस्पर्शादीनामभावत्वममूर्तत्वम्, तस्मादमूर्तत्वादिन्द्रियग्राह्यो नास्ति । योऽमूर्ती भवति स इन्द्रियग्राह्योऽपि न भवति, य इन्द्रियग्राह्यो भवति सोऽमूर्तोऽपि न सम्भवति, यथा घटादिः । पुनरयं जीवोऽमूर्त भावादपि नित्यो भवति । यद् द्रव्यत्वे सत्यमूर्तं तन्नित्यम्, यथा व्योम | अथ कदाचित् कश्चिद्वक्ष्यति चेदयममूर्त आत्मा तदा कथमस्य बन्धः ? तत्रोत्तरं वदतः - अस्य जीवस्य शरीरे बन्धो नियतो निश्चितोऽध्यात्महेतुर्वर्तते । कोऽर्थः ? आत्मन्यधीकृत्य भवतीत्यध्यात्मं मिथ्यात्वाविरतिकषाययोगादिकम्, तदेव हेतुः कारणं यस्य सोऽध्यात्महेतुः । अस्य जीवस्य यः शरीरे बन्धो भवति स मिथ्यात्वादिभिर्हेतुभिरेव स्यादिति । यथा अमूर्तस्याप्याकाशस्य घटादाविव घटोत्पादनकारणैर्घटे आकाशस्य बन्धो जायते, तथात्मनः शरीरे बन्ध इत्यर्थः । च पुनर्बुधाः संसारस्य हेतुं - भवभ्रमणस्य कारणं सम्बन्धं वदन्ति । यावच्छरीरेण बद्धस्तावदयं जीवो भवभ्रमणं करोतीत्यर्थः । यदुक्तं वेदान्तेऽपि - “कर्मबद्धो भवेज्जीवः, कर्ममुक्तो भवेच्छिवः ॥” इति ॥ १९ ॥ जहा वयं धम्ममयाणमाणा, पावं पुरा कम्ममकासि मोहा । ओरुज्झमाणा परिरक्खियंता, तं नेव भुज्जो वि समायरामो ॥ २० ॥ 1 हे तात ! यथा पुरा - पूर्वं मोहात्तत्त्वस्याऽज्ञानादावामर्थे वयं पापं पापहेतुकं कर्माका । आवां किं कुर्वाणौ ? धर्मं सम्यक्त्वादितत्त्वमजानानौ । पुनः कथंभूतौ ? अवरुध्यमानौ - गृहान्निः सरणमप्राप्यमाणौ । पुनरावां कथंभूतौ ? परिरक्ष्यमाणौ साधुदर्शनाद्वार्यमाणौ, पुरा ईदृशावावामज्ञाततत्त्वौ पापकर्मपरायणावभूव, तत्पापं कर्म भूयः पुनर्नैव समाचरावो, न कुर्व इत्यर्थः ॥ २० ॥ अब्भायंमि लोगंमि, सव्वओ परिवारिए । अमोहाहिं पडतीहिं, गिहंसि न रहूं लभे ॥ २१ ॥ भो तात ! अस्मिन् लोके - जगत्यावां गृहे गृहवासे रतिं न लभावहे । कथंभूते लोके ? अमोघाभिरवश्यं भेदिकाभिः शस्त्रधाराकाराभिः पतन्तीभिरागच्छन्तीभिः शस्त्रधाराभिः कदर्थिते । पुनः कथंभूते लोके ? अभ्याहते - आभिमुख्येन पीडिते । पुनः कथंभूते लोके ? सर्वतः- सर्वासु दिक्षु परिवारिते परिवेष्टिते, वागुरादौ पतितमृगवद् दुःखितौ स्वः ॥ २१ ॥
SR No.022592
Book TitleUttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorVajrasenvijay, Bhagyeshvijay
PublisherBhadrankar Prakashan
Publication Year2001
Total Pages350
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy