________________
चतुर्दशमिषुकारीयमध्ययनम् १४]
[ २३५
महातिलेषूत्तमतिलेषु, यन्त्रादिमथनसंयोगात्तिलेभ्यस्तैलं पूर्वमप्रत्यक्षमविद्यमान - मप्युत्पद्यते । अरणिकाष्टादधः काष्टसंयोगाभावे चैतन्यरूपजीवाभाव इत्यर्थः ॥ १८ ॥
अथैतस्योक्तस्योत्तरं तावाहतुः
नो इंदियगिज्झु अमुत्तभावा, अमुत्तभावावि य होइ निच्चो । अज्झत्थहेऊं निययस्स बंधो, संसारहेउं च वयंति बंधं ॥ १९ ॥
तात ! अयमात्मा अमूर्त्तभावादिन्द्रियग्राह्यो 'नो' इति नास्ति । शब्दरूपरसगन्धस्पर्शादीनामभावत्वममूर्तत्वम्, तस्मादमूर्तत्वादिन्द्रियग्राह्यो नास्ति । योऽमूर्ती भवति स इन्द्रियग्राह्योऽपि न भवति, य इन्द्रियग्राह्यो भवति सोऽमूर्तोऽपि न सम्भवति, यथा घटादिः । पुनरयं जीवोऽमूर्त भावादपि नित्यो भवति । यद् द्रव्यत्वे सत्यमूर्तं तन्नित्यम्, यथा व्योम | अथ कदाचित् कश्चिद्वक्ष्यति चेदयममूर्त आत्मा तदा कथमस्य बन्धः ? तत्रोत्तरं वदतः - अस्य जीवस्य शरीरे बन्धो नियतो निश्चितोऽध्यात्महेतुर्वर्तते । कोऽर्थः ? आत्मन्यधीकृत्य भवतीत्यध्यात्मं मिथ्यात्वाविरतिकषाययोगादिकम्, तदेव हेतुः कारणं यस्य सोऽध्यात्महेतुः । अस्य जीवस्य यः शरीरे बन्धो भवति स मिथ्यात्वादिभिर्हेतुभिरेव स्यादिति । यथा अमूर्तस्याप्याकाशस्य घटादाविव घटोत्पादनकारणैर्घटे आकाशस्य बन्धो जायते, तथात्मनः शरीरे बन्ध इत्यर्थः । च पुनर्बुधाः संसारस्य हेतुं - भवभ्रमणस्य कारणं सम्बन्धं वदन्ति । यावच्छरीरेण बद्धस्तावदयं जीवो भवभ्रमणं करोतीत्यर्थः । यदुक्तं वेदान्तेऽपि -
“कर्मबद्धो भवेज्जीवः, कर्ममुक्तो भवेच्छिवः ॥” इति ॥ १९ ॥
जहा वयं धम्ममयाणमाणा, पावं पुरा कम्ममकासि मोहा । ओरुज्झमाणा परिरक्खियंता, तं नेव भुज्जो वि समायरामो ॥ २० ॥
1
हे तात ! यथा पुरा - पूर्वं मोहात्तत्त्वस्याऽज्ञानादावामर्थे वयं पापं पापहेतुकं कर्माका । आवां किं कुर्वाणौ ? धर्मं सम्यक्त्वादितत्त्वमजानानौ । पुनः कथंभूतौ ? अवरुध्यमानौ - गृहान्निः सरणमप्राप्यमाणौ । पुनरावां कथंभूतौ ? परिरक्ष्यमाणौ साधुदर्शनाद्वार्यमाणौ, पुरा ईदृशावावामज्ञाततत्त्वौ पापकर्मपरायणावभूव, तत्पापं कर्म भूयः पुनर्नैव समाचरावो, न कुर्व इत्यर्थः ॥ २० ॥
अब्भायंमि लोगंमि, सव्वओ परिवारिए ।
अमोहाहिं पडतीहिं, गिहंसि न रहूं लभे ॥ २१ ॥
भो तात ! अस्मिन् लोके - जगत्यावां गृहे गृहवासे रतिं न लभावहे । कथंभूते लोके ? अमोघाभिरवश्यं भेदिकाभिः शस्त्रधाराकाराभिः पतन्तीभिरागच्छन्तीभिः शस्त्रधाराभिः कदर्थिते । पुनः कथंभूते लोके ? अभ्याहते - आभिमुख्येन पीडिते । पुनः कथंभूते लोके ? सर्वतः- सर्वासु दिक्षु परिवारिते परिवेष्टिते, वागुरादौ पतितमृगवद् दुःखितौ
स्वः ॥ २१ ॥