________________
[ उत्तराध्ययनसूत्रे
अथ पुनः पुरोहितस्तौ लोभयितुमाह
धणं पभूयं सह इत्थीयाहिं, सयणा तहा कामगुणा पगामा । तवं कए तप्प जस्स लोगो, तं सव्वसाहीणमिहेव तुब्भं ॥ १६ ॥ भो पुत्रौ ! यस्य कृते - यदर्थं लोको जनस्तपस्तप्यते, तत्सर्वमिहास्माकं गृहे 'तुब्भ' इति युवयोः स्वाधीनं वर्तते । तत् किं किमित्याह- धनं प्रभूतं प्रचुरं वर्तते, धनार्थं हि लोको बहुदुःखं भुङ्क्ते, तद्धनं प्रभूतं स्त्रीभिः सहितमस्ति, धनादेव स्त्रियः स्वाधीना एव स्युः । तथा स्वजना ज्ञातयोऽपि वर्तन्ते, यस्य हि कुटुम्बं प्रचुरं भवति स केनापि धर्षितुं न शक्यत इत्यर्थः । पुनः प्रकामा भूयांसः प्रचुरा: कामगुणा रूप-रस- गन्ध-स्पर्शादय इन्द्रिय-विषया वर्तन्ते तस्मात्किमर्थं तपस्तपनीयम् ? ॥ १६ ॥
२३४]
-
धणेण किं धम्मधुराहिगारे, सयणेण वा कामगुणेहिं चेव । समणा भविस्सा गुणोहधारी, बर्हि विहारा अभिगम्म भिक्खं ॥ १७ ॥
अथ पुत्रौ वदतः- भो तात ! धर्मधुराधिकारे - दशविधयतिधर्मधूर्वहनाधिकारे आवां श्रमणौ भविष्यावः । कीदृशौ श्रमणौ ? गुणौघधारिणौ ज्ञान - दर्शन - चारित्र - २ - रूपगुणसमूहधारिणौ । किं कृत्वा ? बहिर्विहारमधिगम्य, द्रव्यतो बहिर्ग्रामाकरनगरादिभ्य एकान्तमाश्रित्य, भावतो बहिः क्वचिदप्रतिबद्धत्वमाश्रित्य । तस्मादावयोर्धनेन किं ? अथवा स्वजनेन किं ? च पुनः कामगुणैरिन्द्रियसुखैः किं ? धनस्वजनविषया हि न परलोकसुखाय स्युरित्यर्थः । यदुक्तं वेदेऽपि
"न प्रजया धनधान्येन त्यागेनैकेनामृतत्वमानंशुरित्यादि" ॥ १७ ॥
अथ भृगुस्तयोर्धर्मनिराकरणाय परलोकनिराकरणाय च आत्मनोऽभावमाह
जहा य अग्गी अरणीओ असंतो, खीरे घयं तिल्लमहातिलेसु ।
एमेव जाया सरीरंमि सत्ता, संमुच्छई नासइ नावचिट्ठे ॥ १८ ॥
जाया ! पुत्रौ ! सत्त्वा - जीवा एवमेव- अमुना दृष्टान्तेन शरीरे असंत:- पूर्वमविद्यमाना एव सम्मूर्च्छन्ति - उत्पद्यन्ते । पृथिव्यप्तेजोवाय्वाकाशानां समुदायसंयोगाच्चैतन्यरूपो जीव उत्पद्यते इत्यर्थः । बदरीबल्लिगुडमधूकपुष्पपानीयादिद्रव्याणां मेलपात् मदशक्तिरिव पूर्वमसत् उत्पद्यते, तथाभूतानां संयोगाच्चेतना उत्पद्यते । पुनः स जीवो नश्यति नावतिष्ठते । शरीरनाशे तन्नाशः, शरीरेसति पञ्चभूतमेलापे सति स भवेत्, पञ्चभूतानां पृथग्भावे तस्यापि नाश एव । एवमिति केन प्रकारेण जीवाः पूर्वमविद्यमाना उत्पद्यन्ते ? तद्दृष्टान्तमाह-यथा एव, चशब्दोऽत्र एवार्थे, अग्निः ' अरणीओ' अरणीतोऽग्निमथनकाष्टतः पूर्वमदृश्यमानोऽपि संयोगादुपरितनारणिकाष्टेन, अधो वंशार्कादिकाष्टसंयोगादग्निरुत्पद्यते, न त्वेकाकिनि अरणिकाष्टे पूर्वमग्निर्दृष्टः । एवं क्षीरे घृतम्, क्षीरमपि पूर्वमुष्णीकृत्य पश्चात्तन्मध्ये तक्रं स्तोकं प्रक्षिप्य चतुर्यामं स्त्यानीकृत्य पश्चान्मन्थानेन विलोड्यते, तदा ततः पूर्वमसंदेव घृतमुत्पद्यते । एवं