________________
चतुर्दशमिषुकारीयमध्ययनम् १४]
[२३३ खणमित्तसुक्खा बहुकालदुक्खा, पगामदुक्खा अनिगामसुक्खा । संसारमोक्खस्स विपक्खभूया, खाणी अणत्थाण उकामभोगा ॥१३॥
हे तात ! कामभोगा अनर्थानां खानिसदृशा वर्तन्ते, अनर्थानामैहिकपारलौकिकदुःखानामुत्पत्तिस्थानसदृशा भवन्तीत्यर्थः । तदेवाह-कीदृशाः कामभोगाः? क्षणमात्रसुखाः क्षणमात्र सेवनकाले एव सुखयन्तीति क्षणमात्रसुखाः । पुनः कीदृशाः ? बहुकालदुःखाः, बहुकालं नरकादिषु दुःखं येभ्यस्ते बहुकालदुःखाः । पुनः कीदृशाः ? प्रकामदुःखाः, प्रकाममत्यन्तं दुःखं येभ्यस्ते प्रकामदुःखाः । पुनः कीदृशाः ? अनिकामसुखाः, अप्रकृष्टसुखास्तुच्छसुखा इत्यर्थः । पुनः कीदृशाः ? संसारस्य भवभ्रमणस्य मोक्षः संसारमोक्षस्तस्य विपक्षभूताः-शत्रुभूताः, संसारभ्रमणवृद्धिकारिण इत्यर्थं ॥ १३ ॥
परिव्वयंते अनियत्तकामे, अहो अ राओ परितप्पमाणे । अण्णप्पमत्ते धणमेसमाणे, पप्पुत्ति मच्चुं पुरिसो जरं च ॥१४॥
एतादृशः पुरुषो मृत्युं प्राप्नोति, च पुनर्जरां प्राप्नोति । कीदृशः सन् ? परिव्रजन्, परि-समन्ताद्विषयसुखलाभार्थमितस्ततो भ्रमन् । पुनः कीदृशः ? अनिवृत्तकामः, न निवृत्तः कामोऽभिलाषो यस्य सोऽनिवृत्तकामोऽनिवृत्तेच्छ इत्यर्थः । पुनः कीदृशः ? 'अह' इति अहनि 'राओ' इति रात्रौ परितप्यमानः, आर्षत्वात् 'अहो अराओ' इति स्थितिः । अहोरात्रेऽप्राप्तवस्तुप्राप्तिनिमित्तं चिंतामग्नश्चिंतया दग्धः । पुनः कीदृशः ? अन्यप्रमत्तः, अन्ये स्वजनमाता-पितृ-पुत्र-कलत्र-भ्रात्रादयस्तदर्थं प्रमत्तस्तत्कार्यकरणासक्तोऽन्यप्रमत्तः । पुनः कीदृशः ? धनमेषयन्, विविधोपायैर्धनं वाञ्छन्नित्यर्थः । एवमेव मूढः पुमान् म्रियते, स्वार्थ किमपि न करोति । पुनः स्थितौ पूर्णायामेकदा मृत्युर्वा जरा वा अवश्यं प्राप्नोत्येवेति भावः ॥१४॥
पुनः पूर्वोक्तमेव दृढयति । इमंच मे अस्थि इमंच नत्थि, इमंच मे किच्चं इमं अकिच्चं । तमेवमेवं लालप्पमाणं, हरा हरंति त्ति कहं पमाए ॥ १५ ।
हरा:- कालास्तं मनुष्यं हरन्ति, हरन्ति प्राणिनामायुरिति हराः, दिवसरजन्यादयः कालाः, तं किं कुर्वन्तं ? एवमेव लालप्यमानम्, व्यक्तं वचनं वदन्तम् । एवमेवमिति किं? इदं च'मे'ममास्ति, इदं प्रत्यक्षं धान्यादिकं मम गृहे वर्तते, पुनरिदं च रजत-स्वर्णाभरणादिकं च 'मे' मम नास्ति । च पुनरिदं मम कृत्यं षड्ऋतुसुखं गृहादिकं करणीयं वर्तते, इदं च 'मे' ममाकृत्यं वाणिज्यादिकमकरणीयम्, अस्मिन् वाणिज्ये लाभो नास्ति, तस्मात्र कृत्यमकृत्यमित्यर्थः । इति हेतोर्भो तात ! कथं प्रमादीत् ? कथं प्रमादं कुर्यात् ? प्रमादः कर्तुं कथमुचित इत्यर्थः ॥१५॥
उ०