________________
२३२]
[उत्तराध्ययनसूत्रे अथ पूर्वगाथाया अर्थ:-'सोयग्गीति' पुनः कीदृशं पुरोहितं ? शोकाग्निना सन्तप्तभावं शोकवह्निना सन्तप्तभावम्, शोकवह्निना प्रज्वलितचित्तम् । अत एव परितप्यमानं समन्ताद्भस्मसाज्जायमानम् । पुनः कीदृशं पुरोहितं ? बहुधा-बहुप्रकारेण वेदादिवचोयुक्त्या बहुवारंवारं यथास्यात्तथा लालप्यमानम्, मोहवशाद्दीनहीनवचांस्यतिशयेन भाषमाणम् । कीदृशेन शोकाग्निना ? आत्मगुणेन्धनेन, आत्मनः-स्वस्य शोकाग्नेरेव सहचारित्वेन तद्गुणकारित्वात् शोकाग्नेरेवोद्दीपकत्वाद् गुणा रागादय आत्मगुणास्ते एवेन्धनमुद्दीपनं यस्य स आत्मगुणेन्धनस्तेन । पुनः कीदृशेन ? मोहानिलप्रज्वलनाधिकेन, मोहानिलादज्ञानपवनादधिकं प्रज्वलनमस्येति मोहानिलाधिकप्रज्वलनस्तेनाज्ञानपवनाधिकजाज्वल्यमानेन, प्राकृतत्वादधिकशब्दस्य परनिपातः ॥११॥
अथ तौ कुमारावुत्तरं वदतःवेया अहीया न हवंति ताणं, भुत्ता दिया निति तमंतमे णं । जाया य पुत्ता न हवंति ताणं, को णाम ते अणुमन्निज्ज एयं ॥१२॥
पूर्वोक्तस्य वेदानधीत्य प्रव्रजितव्यमित्येतस्योत्तरं-भो तात ! वेदा अधीतास्त्राणंशरणं न भवन्ति । वेदा मरणाद्वेदपाठिनं न त्रायन्ते । यदुक्तं वेदविद्भिरेव
शिल्पमध्ययनं नाम, वृत्तं ब्राह्मणलक्षणम् ।
वृत्तस्थं ब्राह्मणं प्राहु-र्नेतरान् वेदजीवकान् ॥ १ ॥ पुनर्भो तात ! द्विजा-ब्राह्मणा भुक्ता-भोजिताः 'तमंतमे' इति तमस्तमसि नरकभूमिभागे रौद्र-रौरवकादिके नयन्ति-प्रापयन्ति।'ण' मिति वाक्यालङ्कारे। तमसोऽपि यत्तमस्तमस्तमस्तस्मिन् तमस्तमसि । ते हि ब्राह्मणा भोजिताः कुमार्गपशुवधाश्रवसेवनादौ प्रवर्तन्ते । अतस्तद्भोजनदानं नरकहेतुकम् । च पुनः पुत्रा जाता-उत्पन्नास्त्राणं-शरणं न भवन्ति, नरकपातान्न रक्षन्तीत्यर्थः । उक्तं च वेदानुगैरेव
"यदि पुत्राद्भवेत् स्वर्गो, दानधर्मो निरर्थकः ।। धनधान्यव्ययं कृत्वा, रिक्तं कुर्यान्न मंदिरं ॥ १ ॥ बहुपुत्रा दुली गोधा-स्ताम्रचूडा तथैव च ।
तेषां च प्रथमं स्वर्गः, पश्चाल्लोको गमिष्यति ॥ २ ॥" तदा भो तात ! तव तद्वचनं को नाम पुरुषोऽनुमन्येत । सविवेकः पुमान् कः सम्यक् कृत्वा जानीते इत्यर्थः । इत्यनेन वेदाध्ययनम्, ब्राह्मणानां भोजनम्, पुत्राणां गृहे स्थापनमेतत्त्रयस्योत्तरं दत्वा भोगान् भुङ्क्त्वा इत्यस्योत्तरं ददतः ॥१२॥ १ दानं धर्मो-मु॥