________________
चतुर्दशमिषुकारीयमध्ययनम् १४]
[२३१ अह तायगो तत्थ मुणीण तेसिं, तवस्स वाघायकरं वयासी । इमं वयं वेयविओ वयंति, जहा न होई असुयाण लोगो ॥८॥
अथ पुत्राभ्यामेवमुक्ते सति तद्वाक्यानन्तरं तातकस्तयोर्जनको भृगुपुरोहितस्तत्रावसरे तत्र ग्रामे वा 'तेसिमि' ति तयोस्तपसो व्याघातकरमिदं वचनमवादीत् । कथंभूतयोस्तयोः ? मुन्यो वश्रमणयोः, द्रव्यतस्तु ब्राह्मणपुत्रावगृहीतवेषौ, भावतस्तु धृतसंयमोद्यमौ तौ, तस्माद्भावमुन्योरित्यर्थः । किमवादीदित्याह-हे पुत्रौ ! वेदविदो-वेदज्ञा इदं वचनं वदन्ति, यथा - येन कारणेनासुतानां जनानां लोको गतिर्नास्ति । न विद्यते सुतो येषां ते असुताः, तेषामसुतानामपुत्राणाम् । यतो हि पुत्रं विना पिण्डप्रदानाद्यभावात् । क्षुधया म्रियमाणत्वेना-ध्यान-परायणत्वेनाऽगतित्वं पितॄणां स्यात् । यदाह स्मृतिः
"अपुत्रस्य गतिर्नास्ति, स्वर्गो नैव च नैव च ।
तस्मात्पुत्रमुखं दृष्ट्वा, पश्चाद्धर्मं समाचरेत् ॥ १ ॥" ॥ ८ ॥ अहिज्ज वेए परिविस्स विप्पे, पुत्ते परिठ्ठप्प गिहंसि जाया । भोच्चाण भोगे सह इत्थियाहिं, आरणगा होह मुणी पसत्था ॥९॥ ___ हे पुत्रौ ! युवामारण्यको भूत्वा तदनन्तरं प्रशस्तौ मुनी भूयास्तम् । परं किं कृत्वा ? पूर्वं वेदान् चतुरोऽधीत्य - पठित्वा, पुनर्विप्रान् परिवेष्य - ब्राह्मणान् भोजयित्वा, पुनः पुत्रान् परिष्ठाप्य - कलासु निपुणान् कृत्वा, गृहभारयोग्यान् पुत्रान् गृहं भलाप्य, पुनः स्त्रीभिः सह भोगान् भुङ्क्त्वा , इति भृगुपुरोहितेनोक्तम् ॥९॥
सोयरिंगणा आयगुणिंधणेणं, मोहानिला पज्जलणाहिएणं। संतत्तभावं परितप्पमाणं, लालप्पमाणं बहुहा बहुं च ॥ १० ॥ पुरोहियं तं कमसोऽणुणंतं, निमंतयंतं च सुए धणेणं । जहक्कम कामगुणेसु चेव, कुमारगा ते पसमिक्ख वक्कं ॥११॥
युग्मं द्वाभ्यां गाथाभ्यां ॥ तौ पुत्रौ भृगुपुरोहितं स्वजनकमाहतुः, तौ कुमारौ तं पुरोहितं स्वजनकं वाक्यमूचतुरित्यध्याहारः । किं कृत्वा ? 'पसमिक्ख' प्रकर्षेण अज्ञानाच्छादितमति समीक्ष्य - दृष्ट्वेति द्वितीयगाथया सम्बन्धः । किं कुर्वन्तं तं पुरोहितं ? क्रमशोऽनुक्रमेणानुनयन्तम्, स्वाभिप्रायेण शनैः शनैस्तौ पुत्रौ प्रति ज्ञापयन्तम् । पुनः किं कुर्वन्तं ? धनेन सुतौ प्रति निमन्त्रयन्तम् ।च पुनर्यथाक्रमं कामगुणैर्भोगैनिमन्त्रयन्तम्, यथाक्रममिति यथावसरम्, पूर्वमित्युक्तम्, वेदानधीत्य, ब्राह्मणान् भोजयित्वा, भोगान् भुङ्क्त्वा , इत्याद्यवसरं दर्शयन्तमित्यर्थः । इति द्वितीयगाथार्थः।