________________
२३०]
[उत्तराध्ययनसूत्रे 'दळूण' इति दृष्ट्वा - साधून विलोक्य, अथवा शब्दादिविषयान् मोक्षप्राप्तिविघ्नभूतान् दृष्ट्वा, किमर्थं ? संसारचक्रस्य विमोक्षार्थम्, संसारस्य चातुर्गतिकस्य यच्चक्रं योनिकुलभेदात् समूहः चक्रवर्द्रमणं वा, तस्य विमोक्षणार्थं - निवारणार्थम् । कीदृशौ तौ कुमारौ ? जातिजरामृत्युभयाभिभूतौ-जन्मजरामरणभयेन पीडितौ।पुनः कीदृशौ तौ कुमारौ? बहिर्विहाराभिनिविष्टचित्तौ, बहिः संसाराद्विहारः स्थानं बहिर्विहारो - मोक्षस्तस्मिन्नभिनिविष्टं बद्धादरं चित्तं ययोस्तौ बहिर्विहाराभिनिविष्टचित्तौ ॥ ४ ॥
पियपुत्तगा दुन्निवि माहणस्स, सकम्मसीलस्स पुरोहियस्स । सरित्तु पोराणिय तत्थ जाइं, तहा सुचिन्नं तवसंजमं च ॥५॥
ब्राह्मणस्य भृगुनाम्नः पुरोहितस्य राज्ञः पूज्यस्य द्वौ प्रियपुत्रको लघुवल्लभपुत्रौ यावास्ताम्, ताभ्यां द्वाभ्यां पुरोहितस्य वल्लभपुत्राभ्यां तथा तेन प्रकारेण तपो-द्वादशविधम्, च पुनः संयमं-सप्तदशविधं सुचीर्णं सुतरामतिशयेन निदानादिशल्यरहितेनाचरितं सञ्चरितम्। किं कृत्वा ? तत्र तस्मिन् ग्रामे एव पुरातनी जाति स्मृत्वा, जातिस्मरणं प्राप्य । कीदृशस्य पुरोहितस्य ? स्वकर्मशीलस्य, स्वकीयं ब्राह्मणस्य यजनादिकं षड्विधं कर्म स्वकर्म, तदेव शीलमाचारो यस्य स स्वकर्मशीलस्तस्य, राज्ञः शान्तिपुष्ट्यादिकारकस्य ॥५॥
ते कामभोगेसु असज्जमाणा, माणुस्सएंसुं जे आवि दिव्वा । मुक्खाभिकंखी अभिजायसड्डा, तायं उवागम्म इमं उदाहु ॥६॥
तौ द्वौ पुरोहितकुमारौ तातं - स्वजनकमुपागम्य तातसमीपे आगत्य इदमग्रे वक्ष्यमाणं वचनमुदाजहतुः, वाक्यमूचतुरित्यर्थः । कीदृशौ तौ कुमारौ ? मानुष्यकेषु कामभोगेषु 'असज्जमाणा' इति असज्जौ - अनादरौ । अपि तु पुनर्ये दिव्याः कामभोगास्तेष्वप्यसज्जौ। एतावता मनुष्यदेवसम्बन्धिकामसुखेषु त्यक्तोद्यमौ । पुनः कीदृशौ तौ ? मोक्षाभिकाङ्क्षिणौ सकलकर्मक्षयाभिलाषिणी इत्यर्थः । पुनः कीदृशौ तौ ? अभिजातश्रद्धौ - उत्पन्नतत्त्वरुची इत्यर्थः ॥६॥
किं ऊचतुरित्याह - असासयं दटुं इमं विहारं, बहु अंतरायं न य दीहआउं । तम्हा गिर्हसि न रइं लभामो, आमंतयामो चरिस्सामु मोणं ॥७॥
भो तात ! आवां गृहे रति-सुखं न लभावहे । तस्मात्कारणात् आवां भवन्तमामन्त्रयावहे - त्वां पृच्छावहे, आवां द्वावपि मौनं चरिष्याव: मुनेर्भावो मौनं-साधुधर्ममङ्गीकरिष्याव इत्यर्थः । आवां गृहे रतिं न लभावहे । तत् किं कृत्वा ? इमं विहारं, इमं मनुष्यत्वावस्थानमशाश्वतमनित्यं दृष्ट्वा इति । कीदृशं विहारं ? बह्वन्तरायम्, बहवोऽन्तराया यस्मिन् स बह्वन्तरायस्तम् । च पुनस्तत्र विहारे - मनुष्यभवे दीर्घ पल्योपमसागरोपमादिकमायुर्नास्ति, मनुष्याणां हि स्वल्पमेवायुर्बहवोऽन्तरायाः सन्ति । तस्माद् गृहे आवयोः सर्वथा प्रीति - स्तीत्यर्थः ॥७॥