________________
चतुर्दशमिषुकारीयमध्ययनम् १४]
अथ सूत्रं व्याख्यायते
देवा भवित्ताण पुरे भवंमि, केई चुआ एगविमाणवासी । पुरे पुराणे उसुयारनामे, खाए समिद्धे सुरलोअरम्मे ॥ १ ॥ सकम्मसेसेण पुराकएण, कुलेसु दग्गेसु य ते पसूया । निव्विन्नसंसारभया जहाय, जिणिदमग्गं सरणं पवन्ना ॥ २ ॥
[ २२९
-गाथाद्वयेन सम्बन्धः । केचिज्जीवाः, येषां केनापि नाम न ज्ञायते । यतो हि पूर्वं चतुर्णामपि गोपजीवानां नाम नोक्तम् । यौ पुनद्वौ चित्रसम्भूताभ्यामवशेषावभूतौ, ताविभ्यव्यवहारिणः सुतत्वेनोत्पन्नौ तयोः पुनश्चत्वारो मित्रजीवाः, तेषामपि नाम केनापि न ज्ञायते । एवं षडपि जीवाः पूर्वमनिर्दिष्टनामानोऽभूवन् । अहो ! पश्यत धर्मस्य माहात्म्यं ! जीवानां भव्यकर्मपरिपाकत्वं च ! केचिज्जीवाः पूर्वस्मिन् भवे देवीभूय - देवत्वं प्राप्य सौधर्मदेवलोके नलिनीगुल्मविमाने एकत्र निवासं कृत्वा स्वकर्मशेषेण, स्वस्य कर्मणः- पुण्यप्रकृतिलक्षणस्य शेषेण ते षडपि जीवा इषुकारनाम्नि पुरे पुराणे- पुरातने नगरे, पुनः ख्याते - सर्वत्र प्रसिद्धे, पुनः समृद्धे- धनधान्यपूर्णे, पुनः सुरलोकवत् रम्ये, उदग्रे - उत्कटे क्षत्रियादिके कुले प्रसूता उत्पन्नाः । कथंभूतेन स्वकर्मशेषेण ? पुरातनेन पूर्वजन्मोपार्जितेन, ते जीवा इषुकारपुरे समुत्पद्य, तत्र संसारभयात् निर्वेद्य-निर्वेदं प्राप्य, चतुर्गतिभ्रमणभयादुद्वेगमासाद्य, तदा 'जहाय' इति भोगान् त्यक्त्वा, जिनेन्द्रमार्गं, जिनेन्द्रेणोक्तो मार्गों जिनेन्द्रमार्गस्तं ज्ञानदर्शनचारित्ररूपं मोक्षस्य मार्गं शरणं - जन्मजरामृत्युभयापहं प्रपन्नाः- प्राप्ता इति गाथाद्वयार्थः ॥ १-२ ॥
पुमत्तमागम्म कुमारदोवि, पुरोहिओ तस्स जसा य पत्ती ।
विसाल कित्ती य तसुयारो, रायत्थ देवी कमलावई य ॥ ३ ॥
तेषां षण्णामपि पृथक् भेदं दर्शयति सूत्रकारः - तेषां षण्णां मध्ये द्वौ जीवौ गोपौ तु पुंस्त्वमागम्य-पुरुषवेदत्वं प्राप्य कुमारौ जातौ । भृगुब्राह्मणस्य पुत्रौ समुत्पन्नौ । अत्र कुमारत्वेन एवमुक्तौ यौ हि अपरिणीतावेव दीक्षां जगृहतुः । तृतीयो जीवः पुरोहितो भृगुनामा ब्राह्मणश्चासीत् । तद्भार्या यशानाम्नी चतुर्थो जीवः । तथा विशाला - विस्तीर्णा कीर्त्तिर्यस्य स विशालकीर्तिः, एतादृश इषुकारनामा राजा पञ्चमो जीवः । च पुनरिह राज्ञो भवे एव तस्यैव राज्ञो देवी - राज्ञी कमलावती जातेति षष्ठो जीवः । एते षडपि जीवाः स्वस्वायुःक्षये च्युत्वा केचिदग्रतः, केचित्पश्चात्पूर्वसम्बन्धेन एकत्र नगरे मिलिता इत्यर्थः ॥ ३ ॥ जाईजमच्चुभयाभिभूया, बर्हिविहाराभिनिविट्ठचित्ता । संसारचक्क्स्स विमोक्खणट्ठा, दट्ठूण ते कामगुणे विरत्ता ॥ ४ ॥
कुमारौ कामगुणेभ्यः - शब्दरूपरसगन्धस्पर्शेभ्यो विरक्तौ जातौ । किं कृत्वा ?