________________
॥अथ चतुर्दशमिषुकारीयमध्ययनं प्रारभ्यते ॥ त्रयोदशेऽध्ययने हि निदानस्य दोष उक्तः, चतुर्दशेऽध्ययने हि निर्निदानस्य गुणमाहअत्र मुख्यतस्तु निदानराहित्यमेव मुक्तेः कारणमित्युच्यते।
तत्र सम्प्रदायः-यौ तौ गोपदारको चित्रसम्भूतपूर्वभवमित्रौ साधुसेवाकरौ देवलोकं गतौ, ततश्च्युत्वा क्षितिप्रतिष्ठिते नगरे इभ्यकुले द्वावपि भ्रातरौ जातौ । तत्र तयोश्चत्वारः सुहृदो जाताः । तत्र भोगान् भुङ्क्त्वा , स्थविराणामन्तिके च धर्मं श्रुत्वा सर्वेऽपि प्रव्रजिताः। सुचिरकालं संयममनुपाल्य भक्तं प्रत्याख्यातम् । कालं कृत्वा सौधर्मे कल्पे पद्मगुल्मविमाने षडपि सुहृदः पल्योपमायुष्का देवत्वेनोत्पन्नाः । तत्र ये ते गोपजीववर्जा देवाश्चत्वारस्ततश्च्युत्वा कुरुजनपदे इषुकारपुरे अवतीर्णास्तत्र प्रथम इषुकारराजा जातः । द्वितीयस्तस्यैव राज्ञः पट्टदेवी कमलावती जाता, तृतीयस्तस्यैव राज्ञो भृगुनामा पुरोहितः संवृत्तः । चतुर्थस्तस्यैव पुरोहितस्य भार्या संवृत्ता । तस्या वासिष्ठं नाम गोत्रम्, यशा इति नाम जातम् । स च भृगुपुरोहितः प्रकामं सन्तानलाभमभिलषति, अनेकदेवोपयाचनं कुरुते, नैमित्तिकान् प्रश्नयति । तौ द्वावपि पूर्वभवगोपदेवौ वर्धमानावधिना एवं ज्ञातवन्तौ, यथा आवामेतस्य भृगुपुरोहितस्य पुत्रौ भविष्यावः । ततः श्रमणरूपं कृत्वा द्वावपि भृगुगृहे समायातौ, सभार्येण भृगुणा वन्दितौ, सुखासनस्थौ धर्मं कथयतः । तयोरन्तिके सभार्येण भृगुणा श्रावकव्रतानि गृहीतानि । पुरोहितेन कथितम् भगवन् ! अस्माकमपत्यं भविष्यति न वा इति ? साधुभ्यामुक्तं भवतां द्वौ दारको भविष्यतः, तौ च बालावस्थायामेव प्रव्रजिष्यतः, तयोर्भवद्भ्यां व्याघातो न कार्यः । तौ प्रव्रज्य घनं लोकं प्रतिबोधयिष्यतः । इति भणित्वा तौ देवौ स्वस्थानं गतौ।
ततोऽचिरेण च्युत्वा पुरोहितभाया उदरेऽवतीर्णौ । ततोऽसौ पुरोहितः सभार्यो नगरान्निर्गत्य 'प्रत्यन्तग्रामे स्थितः, तत्रैव सा ब्राह्मणी प्रसूता, दारको जातौ, लब्धसंज्ञौ तौ ताभ्यां मुनिमार्गविरक्तताकरणार्थमेवं शिक्षितौ, य एते मुण्डितशिरस्काः साधवो दृश्यन्ते, ते बालकान् मारयित्वा तन्मांसं खादन्ति, तत एतेषां समीपे श्रीमद्भिर्न कदापि स्थेयम् । अन्यदा तस्माद् ग्रामादेतौ क्रीडन्तौ बहिर्निर्गतौ, तत्र पथश्रान्तान् साधूनागच्छतः पश्यतः । ततो भयभ्रान्तौ तौ दारकावेकस्मिन् वटपादपे आरूढौ । साधवस्तु तस्यैव वटपादपस्याधः पूर्वगृहीताशनादिभोजनं कर्तुं प्रवृत्ताः। वटारूढौ तौ कुमारौ स्वाभाविकमनपानं पश्यतः । ततश्चिन्तितुं प्रवृत्ती, नैते बालमांसाशिनः, किन्तु स्वाभाविकाहारकारिणः, क्वचिदेतादृशः साधवोऽस्माभिदृष्टा इति चिन्तयतोस्तयोिितस्मरणमुत्पन्नम् । ततः प्रतिबुद्धौ तौ साधून् वन्दित्वा गतौ मातृ-पितृसमीपम् । अध्ययनोक्तवाक्यैस्ताभ्यां मातापितरौ प्रतिबोधितौ । तद्धनलिप्सु राजानं च राज्ञी प्रतिबोधितवती । एवं षडपि जीवा गृहीतप्रव्रज्याः केवल
ज्ञानमासाद्य मोक्षं गताः।
१ समीपग्रामे