________________
त्रयोदशं चित्रसम्भूतीयमध्ययनम् १३]
[२२७ कामभोगान् भुङ्क्त्वा ।पुनः किं कृत्वा ? तस्य चित्रजीवसाधोर्वचनमुपदेशवाक्यमकृत्वा, निदानकारकस्य नरकगतिरेव।तस्य गुरुकर्मत्वान्न साधोरुपदेशावकाशो जात इत्यर्थः॥३४॥ चित्तो वि कामेहिं विरत्तकामो, उदग्गचारित्ततवो महेसी । अणुत्तरं संजमं पालइत्ता, अणुत्तरं सिद्धिगई गओ॥३५॥त्ति बेमि ॥
चित्रोऽपि-पूर्वभवचित्रजीवसाधुरपि महर्षिर्महामुनिरनुत्तरं सर्वोपरिवर्तिसिद्धिस्थानं गतः । किं कृत्वा ? अनुत्तरं जिनाज्ञाविशुद्धं सप्तदशविधं संयम पालयित्वा । कथंभूतः स साधुः ? कामेभ्यो विरक्तकामः, भोगेभ्यो विरक्ताभिलाषः, पुनः कीदृशः सः ? उदग्रचारित्रतपाः, उदग्रं-प्रधानं साध्वाचारे सर्वविरतिलक्षणं दशविधरूपं चारित्रम्, तपो द्वादशविधं यस्य स उदग्रचारित्रतपाः । एतादृशः सन् मोक्षं प्राप्तश्चित्रजीवमुनिरिति सुधर्मास्वामी जम्बूस्वामिनं ब्रवीति । हे जम्बू ! अहं तवाग्रे इति ब्रवीमि ॥ ३५ ॥ ___ इति चित्रसम्भूतीयं त्रयोदशमध्ययनं सम्पूर्णम् ॥ १३ ॥
इति श्रीमदुत्तराध्ययनसूत्रार्थदीपिकायाम् उपाध्यायश्रीलक्ष्मीकीर्तिगणिशिष्यलक्ष्मीवल्लभगणिविरचितायां चित्रसम्भूतीयमध्ययनं सम्पूर्णम् ॥१३॥