________________
२२६]
[उत्तराध्ययनसूत्रे अथ मुनिः संसारस्य अनित्यत्वेन उपदेशं ददाति । अच्चेइ कालो तुरियंति राईओ, न यावि भोगा पुरिसाण निच्चा। ---- उविच्च भोगा पुरिसं चयंति, दुमं जहा खीणफलं व पक्खी ॥३१॥
हे राजन् ! कालोऽत्येति - अतिशयेन गच्छति । कालस्य किं याति ? आयुर्यातीत्यर्थः । रात्रयस्त्वरयन्ति-उत्तालतया व्रजन्ति । हे राजन् ! पुरुषाणां भोगा अपि अनित्याः, भोगाः पुरुषमुपेत्य स्वेच्छया आगत्य पुरुषं त्यजन्ति, पुरुषा यद्यपि भोगांस्त्यक्तुं नेच्छन्ति, तथापि भोगाः स्वयमेव पुरुषांस्त्यजन्तीत्यर्थः । के किं यथा ? पक्षिणः क्षीणफलं वृक्षं यथा त्यजन्ति ॥ ३१॥
जइ तं सि भोगे चइउं असत्तो, अज्जाई कम्माइं करेहि रायं । धम्मे ठिओ सव्वपयाणुकंपी, तो होहिसि देवो इओ विउव्वी ॥३२॥
हे राजन् ! यदि त्वं भोगांस्त्यक्तुमशक्तोऽसि, असमर्थोऽसि, तदा हे राजन् ! आर्याणि शिष्टजनयोग्यानि कर्माणि कुरु। पुनर्धर्मे स्थितः सर्वप्रजानुकम्पी भवेति शेषः । सर्वप्रजापालको भव । सर्वाश्च ताः प्रजाश्च सर्वप्रजाः, तास्वनुकम्पते इत्येवंशीलः सर्वप्रजानुकम्पी। हे राजन् ! आर्यकर्मकरणात् त्वं 'वेउव्वी' वैक्रियशक्तिमान् देवो - निर्जर इतो भवादग्रे भविष्यसि ॥३२॥ न तुज्झ भोगे चइऊण बुद्धी, गिद्धोसि आरंभपरिग्गहेसु । मोहं कओ इत्तिउ विप्पलावो, गच्छामि रायं आमंतिओ सि ॥ ३३ ॥ __ हे राजन्नहं गच्छाम्यहं व्रजामि, मया त्वमामन्त्रितोऽसि, मया त्वं पृष्टोऽसि, धातूनामनेकार्थत्वात् । हे राजन् ! 'तुज्झ' इति तव भोगांस्त्यक्तुं बुद्धिर्नास्ति, अनार्यकार्याणां भोगा एव कारणानि सन्ति । अतो भोगाननार्यकार्याण्यपि त्यक्तुं मतिर्नास्ति । पुनरारम्भपरिग्रहेषु त्वं गृद्धोऽसि-लुब्धोऽसि, आरम्भपरिग्रहान्न त्यजसीत्यर्थः । एतावान् विप्रलापो-विविधवचनोपन्यासो मोघः कृतो-निरर्थकः कृतः, जलविलोडनवद्व्यर्थो जातः । तस्मात्कारणादथाहं त्वत्तः सकाशादन्यत्र व्रजामि । तवाज्ञास्तीत्युक्त्वा मुनिर्गतः ॥ ३३ ॥
अथ मुनौ गते सति ब्रह्मदत्तस्य किमभूत्तदाहपंचालराया विय बंभदत्तो, साहुस्स तस्स वयणं अकाउं। अणुत्तरे भुंजिय कामभोए, अणुत्तरे सो नरए पविट्ठो ॥३४॥
पञ्चालदेशानां राजा पाञ्चालराजो ब्रह्मदत्तश्चक्रवर्तिरप्यनुत्तरे-सकलनरकावासेभ्य उत्कृष्टे अप्रतिष्ठाननाम्नि प्रविष्टस्तत्रोत्पन्न इत्यर्थः । किं कृत्वा ? अनुत्तरान्-सर्वोत्कृष्टान्