________________
त्रयोदशं चित्रसम्भूतीयमध्ययनम् १३]
[२२५ अथ नृपतिराहअहंपि जाणामि जहेह साहू, जं मे तुमं साहसि वक्कमेयं । भोगा इमे संगकरा भवंति, जे दुज्जया अज्जो अम्हारिसेहिं ॥२७॥
हे साधो ! इह जगति यथा वर्तते तथाहमपि जानामि, यत्त्वं 'मे' मम एतद्वाक्यं साधयसि-शिक्षयसि, शिक्षारूपेण साधु कथयसि, परं किं करोमि ? इमे प्रत्यक्षं भुज्यमाना भोगाः सङ्गकरा भवन्ति - बन्धनकरा भवन्ति । कीदृशा इमे भोगाः? हे आर्य ! ये भोगा अस्मादृशैर्गुरुकर्मभिर्दुर्जया - दुस्त्याज्याः ॥ २७ ॥
हत्थिणपुरंमि चित्ता, दट्टणं नरवइं महिड्डियं ।
कामभोगेसु गिद्धेणं, नियाणमसुहं कडं ॥ २८ ॥ ___ हस्तिनागपुरे भो चित्र ! मया निदानं कृतम् । कीदृशं निदानम् ? अशुभं भोगाभिलाषत्वादशुभम् । किं कृत्वा ? नरपतिं सनत्कुमारचक्रिणं दृष्ट्वा । कीदृशं चक्रिणं? महर्द्धिकम्, कीदृशेन मया ? कामभोगेषु गृद्धेन, इन्द्रियसुखलोलुपेन ॥ २८ ॥
तस्स मे अप्पडिक्कंतस्स, इमं एयारिसं फलं ।
जाणमाणो वि जं धम्म, कामभोगेसु मुच्छिओ ॥२९॥ तस्य निदानस्य - प्राग्भवकृतभोगाभिलाषस्य इमं प्रत्यक्षं भुज्यमानं एतादृशं वक्ष्यमाणं फलं जातम् । कथंभूतस्य तस्य निदानस्य ? अप्रतिक्रान्तस्य - अनालोचितस्य । यस्मिन्नवसरे हस्तिनागपुरे आवामनशनं कृत्वा प्रसुप्तौ, तदा चक्रधरस्य स्त्रीरत्नस्य केशपाशो मम चरणे लग्नः, तदा मया निदानं कृतम्, तदा त्वयाहं निवारितः भो भ्रातस्त्वं निदानं मा कार्षीः । चेन्निदानं कृतं स्यात्तदा मिथ्यादुष्कृतं दातव्यम्, त्वया इत्युक्तेऽप्यहं निदानान्न निवृत्त इत्यर्थः । जं' इति यस्मात्कारणात् अहं जिनोक्तं धर्मं जाननपि कामभोगेषु सुतरामतिशयेन मूर्च्छितोऽस्मि, इन्द्रियसुखेषु लुब्धोऽस्मि । नो चेद् ज्ञानस्य एतदेव फलं, ज्ञानी विषयेभ्यो विरक्तः स्यात्, अहंज्ञाने सत्यपि विषयेषु रमामि, तन्निदानस्यैव फलमित्यर्थः ॥२९॥ नागो जहा पंकजलावसन्नो, दर्दू थलं नाभिसमेइ तीरं । एवं वयं कामगुणेसु गिद्धा, न भिक्खुणो मग्गमणुव्वयामो ॥३०॥
हे साधो ! यथा नागो - हस्ती पङ्कजलावसक्तः, अल्पजले बहुपङ्के अवसन्नोऽत्यन्तं निमग्नस्तीरं दृष्ट्वापि नाभिसमेति, तीरस्य-तटस्य अभिमुखं गतोऽपि तटं न प्राप्नोति, तीरं तु दूरतः परन्तु स्थलमपि दृष्ट्वा न उच्चभूमिं प्राप्नोति । एवममुना प्रकारेण अनेन दृष्टान्तेन वयमित्यस्मादृशाः कामगुणेषु शब्दरूपरसगन्धस्पर्शादिषु गृद्धाः-लोभिनो भिक्षोर्मार्ग साधुमार्गं साध्वाचारं नानुव्रजामो-न प्राप्नुमः । तस्मारिक कुर्मः ? वयं विषयिणो जानन्तोऽप्यजानन्त इव जाता इत्यर्थः ॥ ३० ॥
૨૯