Book Title: Uttaradhyayan Sutram Part 01
Author(s): Vajrasenvijay, Bhagyeshvijay
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 290
________________ अष्टादशं संयतीयाख्यमध्ययनम् १८] [२८१ ___ अहं सगरचक्रिणः पुत्रवधव्यतिकरं कथयिष्यामि । सामन्तादिभिस्तद्वचः प्रतिपन्नम्। ततः स द्विजो मृतं बालकं करे धृत्वा मुष्टोऽस्मीति वदन् सगरचक्रिगृहद्वारे गतः । चक्रिणा तस्य विलापशब्दः श्रुतः । चक्रिणा स द्विज आकारितः, केन मुष्टोऽसीति चक्रिणा पृष्टः । स प्राह-देव ! एक एव मे सुतः सर्पण दष्टी मृतः एतद्दुःखेनाहं विलपामीति । हे करुणासागर ! त्वमेनं जीवय, अस्मिन्नवसरे तत्र मन्त्रिसामन्ताः प्राप्ताः, चक्रिणं प्रणम्य चोपविष्टाः । तदानीं चक्रिणा राजवैद्यमाकार्यैवमुक्तम्, एनं निर्विषं कुरु ? वैद्येन तु चक्रिसुतमरणं श्रुतवतोक्तम्, राजन् ! यस्मिन् कुले कोऽपि न मृतस्तत्कुलाद् भस्म यद्येष आनयति तदैनमहं जीवयामि । द्विजेन गृहे गृहे प्रश्नपूर्वकं भस्म मार्गितम् । गृहमनुष्याः स्वमातृपितृभ्रातृदुहितृप्रमुखकुटुम्बमरणान्याचख्युः । द्विजश्चक्रिसमीपे समागत्योवाच, नास्ति वैद्योपदिष्टताहशभस्मोपलब्धिः । सर्वगृहे कुटुम्बमनुष्यमरणसद्भावात् । ['चक्रिणोक्तं ] यद्येवं तत्कि स्वपुत्रं शोचसि ? सर्वसाधारणमिदं मरणम् । उक्तं च "किं अत्थि कोइ भुवणे, जस्स जायाइं नेव यायाइं । नियकम्मपरिणईए, जम्ममरणाई संसारे ॥ १ ॥" ततो भो ब्राह्मण ! मा रुद ? शोकं मुञ्च ।आत्महितं कार्य चिन्तय । यावत्त्वमप्येवं मृत्युसिंहेन न कवलीक्रियसे । विप्रेण भणितम्-देव ! अहमपि जानाम्येवम्, परं पुत्रमन्तरेण सम्प्रति मे कुलक्षयः, तेनाहमतीवदुःखितः, त्वं तु दुःखितानाथवत्सलोऽप्रतिहतप्रतापश्चासि, ततो मे देहि पुत्रजीवितदानेन मनुष्यभिक्षाम् ? चक्रिणा भणितं-भद ! इदमशक्यप्रतिकारम् । उक्तं च "रेसीयंति सव्वसत्ताई, एत्थ न कम्मति मंततंताई।। अदिट्ठपहरगंसि, विहिपि किं पोरुसं कुणई ॥ १ ॥" ततः परित्यज्य शोकं, कुरु परलोकहितं । मूर्ख एव हृते नष्टे मृते करोति शोकम् । विप्रेण भणितं-महाराज ! सत्यमेतत्, न कार्योऽत्र जनकेन शोकः, ततस्तवमपि मा कार्षीः शोकम्, असम्भावनीयं भक्तः शोककारणं जातम् । सम्भ्रान्तेन चक्रिणा पृष्ट-भो विप्र ! कीदृशं मम शोककारणं जातम् ? विप्रेण भणितं-देव ! तव षष्टिसहस्राः पुत्राः कालं गताः । इदं श्रुत्वा चक्री वज्रप्रहाराहत इव नष्टचेतनः सिंहासनान्निपतितो मूर्छितः,सेवकैरुपचरितश्च । मूर्छावसाने च शोकातुरमना मुत्कलकण्ठेन रुरोद, एवं विलापांश्च चकार । हा पुत्राः ! हा हृदयदयिताः ! हा बन्धुवलभाः ! हा शुभस्वभावाः ! हा विनीताः ! हा सकलगुणनिधयः ! कालेऽनादौ, जीवानां विविधकर्मवशगानाम् । तद् नास्ति संविधानं यद् संसारे न संभवति ॥१॥ १. चक्रिणोक्तं-D.L. नास्ति ॥ २.किमस्ति कोऽपि भुवने, यस्य जातानि जातं नैव यातानि (यातम् )। निजकर्मपरिणत्या, जन्ममरणानि संसारे ॥१॥ ३.सीदन्ति सर्वसत्त्वानि, अत्र न क्रमन्ते मन्त्रतन्त्रादि । अदृष्टप्रहरके विधिमपि किं पौरुषं करोति ॥१॥ उ8

Loading...

Page Navigation
1 ... 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350