Book Title: Uttaradhyayan Sutram Part 01
Author(s): Vajrasenvijay, Bhagyeshvijay
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 261
________________ ॥अथ षोडशं ब्रह्मचर्यसमाधिस्थानाख्यमध्ययनं प्रारभ्यते ॥ पञ्चदशेऽध्ययने हि भिक्षुगुणा उक्ताः । ते भिक्षुगुणा हि ब्रह्मचर्ययुक्तस्य साधोर्भवन्ति । अतः षोडशेऽध्ययने ब्रह्मचर्यस्य समाधिस्थानान्युच्यन्ते___सुयं मे आउसं तेणं भगवया एवमक्खायं इहखलु थेरेहिं भगवंतेहिं दस बंभचेरसमाहिठाणा पन्नत्ता, जे भिक्खूसुच्चा निसम्म संजमबहुले संवरबहुले समाहिबहुले गुत्ते गुत्तिदिए गुत्तबंभयारी सया अप्पमत्ते विहरिज्जा ॥ ___श्रीसुधर्मास्वामी स्वशिष्यं जम्बूस्वामिनं प्राह-हे आयुष्मन् ! मे मया श्रुतम्, 'तेणं' इति तेन भगवता ज्ञानवता तीर्थकरेणाख्यातम्, श्रीमहावीरेण स्वामिनोक्तम्, आसन्नत्वात्तस्यैव ग्रहणम् । पुनरिह श्रीजिनशासने स्थविरैर्गणधरैर्भगवद्भिर्माहात्म्यवद्भिस्तीर्थकरोक्तार्थधारणशक्तिमद्भिर्दशब्रह्मचर्यसमाधिस्थानान्युक्तानि, ब्रह्मचर्यस्थैर्यस्य कारणान्युक्तानि । कोऽर्थः ? ममैवैषा बुद्धिर्नास्ति, किन्तु तीर्थकरैः पुनर्गणधरैगौतमादिभिः स्वापेक्षया वृद्धैरेवमुक्तम्, तथैव मयोच्यते । यानि ब्रह्मचर्यसमाधिस्थानानि भिक्षुः श्रुत्वा शब्दतः श्रवणे धृत्वा, निशम्यार्थतो मनस्यवधार्य संयमबहुलः सन्, बहुलः प्रधानप्रधानतरस्थानप्राप्त्योत्तमः संयमो यस्य स बहुलसंयमो वर्धमानपरिणामचारित्रः सन् विहरेत् । पुनर्यानि ब्रह्मचर्यसमाधिस्थानानि श्रुत्वा संवरबहुलः, संवर आस्रवनिरोधः, स बहुलो यस्य स संवरबहुलः, प्रधानास्रवद्वारनिरोधः, पुनः समाधिबहुलो बहुलसमाधिः प्रधानचित्तस्वास्थ्ययुक्तः सन् विहरेत् । पुनर्यानि ब्रह्मचर्यसमाधिस्थानानि श्रुत्वा भिक्षुर्गुप्तो मनोवाक्कायगुप्तियुक्तः सन्, अत एव गुप्तं नवगुप्तिसेवनाद् गुप्तं सुरक्षितं ब्रह्मचर्यं चरितुं-सेवितुं शीलं यस्य स गुप्तब्रह्मचारी स्थिरब्रह्मचर्यधारकः सन् सदा सर्वदाऽप्रमत्तोऽप्रमादी सन् विहारं कुर्यात् । यतो हि पूर्वं यः साधुर्ब्रह्मचर्यसमाधिस्थानानि श्रृणोति स साधुर्ब्रह्मचर्यपालने स्थिरो भवति । यदुक्तम् "सुच्चा जाणइ कल्लाणं, सुच्चा जाणइ पावगं । उभयपि जाणइ सोच्चा, जं सेयं तं समायरे॥१॥" [दशवैकालिक-४-११] इति श्रुत्वा जम्बूः प्राह कयरे खलु ते थेरेहिं भगवंतेहिं दस बंभेचेरसमाहिठाणा पन्नत्ता ? जे भिक्खू सुच्चा निसम्म संयमबहुले संवरबहुले समाहिबहुले गुत्ते गुतिदिए गुत्तबंभयारी सया अप्पमत्ते विहरेज्जा ॥ हे स्वामिन् ! यानि ब्रह्मचर्यसमाधिस्थानानि भिक्षुः- साधुः शब्दतः श्रुत्वा, अर्थतो हृद्यवधार्य संयमबहुलः संवरबहुलः समाधिबहुलो गुप्तो गुप्तेन्द्रियो गुप्तब्रह्मचारी सदाऽप्रमादी विहरेत् । तानि खलु निश्चयेन कतराणि - कानि तैः स्थविरैर्भगवद्भिर्दश ब्रह्मचर्यसमाधि

Loading...

Page Navigation
1 ... 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350