Book Title: Uttaradhyayan Sutram Part 01
Author(s): Vajrasenvijay, Bhagyeshvijay
Publisher: Bhadrankar Prakashan
View full book text
________________
षोडशं ब्रह्मचर्यसमाधिस्थानाख्यमध्ययनम् १६]
[२६३ पुनः कथम्भूतो ? धर्मारामरतः, धर्मे आ-समन्ताद्रमन्ते इति धर्मारामाः साधवस्तेषु रतः, साधुभिः सह-युक्तः, न त्वेकाकी तिष्ठति । पुनः कीदृशः ? दान्त - इन्द्रियाणां जेता कषायजेता च ॥१५॥ अथ ब्रह्मचर्यधरणात्फलमाह
देवदाणवगंधव्वा, जक्खरक्खसकिन्नरा ।
बंभयारिं नर्मसंति, दक्करं जे करिति तं ॥ १६ ॥ देवा-विमानवासिनो ज्योतिष्काच, दानवा-भवनपतयो, गन्धर्वा-देवगायनाः, यक्षा-वृक्षवासिनः सुराः, राक्षसा-मांसास्वादतत्पराः, किन्नरा-व्यन्तरजातयः, एते सर्वेऽपि तं ब्रह्मचारिणं नमस्कुर्वन्ति । तं कं ? यो ब्रह्मचारी पुरुषः स्त्रीजनो वा दुष्कर-कर्तुमशक्यं धर्मं करोतीति शीलधर्मं पालयति ॥ १६ ॥
एस धम्मे धुवे णिच्चे, सासए जिणदेसिए । सिद्धा सिझंति चाणेणं, सिज्झिस्संति तहावरे ॥१७॥त्तिबेमि ॥
एष धर्मोऽस्मिन्नध्ययने उक्तो ब्रह्मचर्यलक्षणो ध्रुवोऽस्ति, परतीथिभिरनिषेध्योऽस्ति, तस्मात्प्रमाणप्रतिष्ठितः, पुनर्नित्यस्त्रिकालेऽप्यविनश्वरः, अत एव शाश्वतस्त्रिकाले फलदायकत्वात् । पुनर्जिनैस्तीर्थकरैर्देशितः- प्रकाशितः, इति विशेषणैरस्य शीलधर्मस्य प्रामाण्यं प्रकाशितम् । अनेन शीलधर्मेण बहवो जीवाः सिद्धा-अतीतकाले सिद्धि प्राप्ताः । च पुनरनेन धर्मेण कृत्वेदानी सिद्ध्यन्ति । तथा तेन प्रकारेण शीलधर्मेण सेत्स्यन्ति, अपरेऽनागताद्धायां सिद्धि प्राप्स्यन्ति । अत्राध्ययने मुहुर्मुहुर्ब्रह्मचर्यसमाधिस्थानानि प्रकाशितानि, मुहुर्मुहुर्दूषणान्युक्तानि, तदत्र शीलेऽत्यन्तपालनादरप्रकाशनाय, न तु पुनरुक्तिदोषो ज्ञेयः। इत्यहं ब्रवीमीति सुधर्मास्वामि जम्बूस्वामिनं प्राह ॥१७॥
इति ब्रह्मचर्यसमाधिस्थानारव्यमध्ययनं षोडश संम्पूर्णम् ॥ १७ ॥
इति श्रीमदुत्तराध्ययनसूत्रार्थदीपिकायामुपाध्यायश्रीलक्ष्मीकीर्तिगणिशिष्यलक्ष्मीवल्लभगणिविरचितायां ब्रह्मचर्यसमाधिस्थानं षोडशं सम्पूर्णम् ॥

Page Navigation
1 ... 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350