Book Title: Uttaradhyayan Sutram Part 01
Author(s): Vajrasenvijay, Bhagyeshvijay
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 270
________________ षोडशं ब्रह्मचर्यसमाधिस्थानाख्यमध्ययनम् १६ ] हासं की रई दप्पं, सहसाऽवित्तासियाणि य । बंभचेररओ थीणं, नाणुचिते कयाइवि ॥ ६ ॥ ब्रह्मचर्यरतो ब्रह्मचारी स्त्रीणां हास्यम्, पुनः क्रीडाम्, तथा रतिम् मैथुनप्रीतिम्, दर्पं स्त्रीणां मानमर्दनादुत्पन्नं गर्वम्, पुनः सहसा अपत्रासितानि सहसात्कारेणागत्य पश्चात्पराङ्मुखस्थितानां स्त्रीणां नेत्रे हस्ताभ्यां निरुन्ध्य भयोत्पादनहास्योत्पादनानि सहसावित्रासितान्युच्यन्ते । एतानि पूर्वानुभूतानि कदापि नानुचिन्तयेन्न स्मरेत् ॥ ६ ॥ पणियं भत्तपाणं तु, खिप्पं मयविवड्डणं । बंभचेररओ भिक्खू, निच्चसो परिवज्जए ॥ ७ ॥ [ २६१ ब्रह्मचर्यरतो भिक्षुः प्रणीतं-क्षरद्धृतादिरसम्, भक्तमाहारम्, तथा पानं- द्राक्षाखर्जूरशर्करादिमिश्रितं पानीयं नित्यशः परिवर्जयेत्, सर्वदा परित्यजेत् सदा सेवनाद् गार्ध्यं स्यात् । तथा ब्रह्मरतो भिक्षुर्यदाहारं पानीयं च क्षिप्रं शीघ्रं मदविवर्धनं - कामोद्दीपकं भवति, तदपि नित्यं परिवर्जयेत् ॥ ७ ॥ धम्मलद्धं मियं काले, जत्तत्थं पणिहाणवं । नाइमत्तं तु भुंजिज्जा, बंभचेररओ सया ॥ ८ ॥ ब्रह्मचर्यरतः साधुर्ब्रह्मचारी सदाऽतिमात्रं मात्रातिरिक्तमतिमात्रं मात्राधिकमाहारं नैव भुञ्जीत । परं कीदृशमाहारं ? धर्मेण लब्धम्, न तु विप्रतार्य गृहीतम्, तदपि आहारं यात्रार्थं - संयमनिर्वाहार्थं न तु बल-वीर्यादिवृद्धयर्थं गृहीतम्, तदाहारं कदाचित्सरसमपि लब्धं तदा सदैव न भुञ्जीत । कीदृशो ब्रह्मचारी साधुः ? प्रणिधानवान् प्रणिधानं - चित्तस्य स्थैर्यम्, तद्विद्यते यस्य स प्रणिधानवान्, चित्तस्वास्थ्ययुक्त इत्यर्थः ॥ ८ ॥ - विभूसं परिवज्जिज्जा, सरीरपरिमंडणं । बंभचेररओ भिक्खू, सिंगारत्थं न धारए ॥ ९ ॥ ब्रह्मचर्यरतो भिक्षुः शरीरस्य परि - समन्तान्मण्डनं - नखकेशादीनां संस्कारणं श्रृङ्गारार्थं परिवर्जयेत् । पुनर्ब्रह्मचर्यधारी विभूषां सम्यग् वस्त्रादिविहितशरीरशोभां परिवर्जयेत् ॥ ९ ॥ संदे रूवे य गंधे य, रसे फासे तहेव य । पंचविहे कामगुणे, निच्चसो परिवज्जए ॥ १०॥ ब्रह्मचारी नित्यशः सर्वदा शब्दं कर्णसुखदम्, रूपं नेत्रप्रीतिकरम्, पुनर्गन्धं-नासासुखदम्, तथा रसं - मधुरादिकम्, तथैव स्पर्शं त्वक्प्रीतिकरम्, एवं पञ्चविधकामगुणान् परिवर्जयेत् ॥ १० ॥

Loading...

Page Navigation
1 ... 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350