Book Title: Uttaradhyayan Sutram Part 01
Author(s): Vajrasenvijay, Bhagyeshvijay
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 274
________________ सप्तदशं पापश्रमणीयमध्ययनम् १७] [ २६५ जानामि, तादृशमेते आचार्या उपाध्याया न जानन्तीत्युक्त्वा निन्दति । तान् कान् ? यैराचार्यैरुपाध्यायैश्च श्रुतं - शास्त्रम्, विनयं च ग्राहितः, शिक्षितश्च तान् प्रति निन्दति । इति न जानाति यदेतैरेवाहं शिक्षितः । एतादृशः कृतघ्नः पापश्रमणः श्रमणाभासः श्रमणलक्षणैर्हीनः श्रमणत्वं मन्यमानः पापश्रमण उच्यते । कीदृशः सः ? बालोऽज्ञानी निर्विवेकीत्यर्थः ॥ ४॥ आयरियउवज्झायाणं, सम्मं नो पडितप्पड़ । अप्पडिपूयए थद्धे, पावसमणित्ति वुच्चइ ॥ ५ ॥ ज्ञानविषयं पापश्रमणत्वमुक्त्वा दर्शनविषयमाह-य आचार्याणां पुनरुपाध्यायानां सम्यक्प्रकारेण वैपरीत्यराहित्येन न परितृप्यति-प्रीतिं न विदधाति । पुनर्यो ऽर्हदादीनां यथायोग्यपूजायाः पराङ्मुखो भवति, अप्रतिपूजको भवति । अथवोपकारकर्तुरप्युपकारं विस्मार्य तस्य प्रत्युपकारं किमपि न करोति, सोऽप्रतिपूजक उच्यते । पुनः स्तब्धोऽहङ्कारी, मनस्येवं जानाति यदहं महापुरुषोऽस्मि, एतादृशो मुनिर्यः स्यात् स पापश्रमण उच्यते ॥ ५ ॥ संमद्दमाणे पाणाणि, बीयाणि हरियाणि च । असंजए संजयमन्नमाणे, पावसमणित्ति वुच्चई ॥ ६ ॥ यः प्राणान् द्वित्रिचतुरिन्द्रियान् संमर्द्दमानोऽतिशयेन पीडयन् च पुनर्बीजानि शालिगोधूमादिसचित्तधान्यानि संमर्द्दयति, च पुनर्हरितानि दूर्वादीनि फलपुष्पादीनि संमईयति, पुनर्योऽसंयतः सन्नात्मानं संयतं मन्यमानः, स पापश्रमण उच्यते ॥ ६ ॥ संथारं फलगं पीढं, निसेज्जं पायकंबलं । अप्पमज्जियमारुहइ, पावसमणित्ति वुच्चइ ॥ ७ ॥ पुनर्यः संस्तारं कम्बलादिकम्, फलकं पट्टिकादिकम्, पीठं सिंहासनादिकम्, निषीद्यते उपविश्यते इति निषद्या तां निषद्यां स्वाध्यायातापनादिक्रियायोग्यां भूमिम्, पादकम्बलं पादपुञ्छनमित्याद्युपकरणमप्रमृज्य रजोहरणादिना प्रमार्जनमकृत्वा जीवयतनामकृत्वाssरोहते स पापश्रमण उच्यते ॥ ७ ॥ ३४ दवदवस्स चरई, पत्ते य अभिक्खणं । उल्लंघणे य चंडेय, पावसमणित्ति वुच्चइ ॥ ८ ॥ पुनर्य आहाराद्यर्थं यदा व्रजति, तदा दबदब इति घातैः पृथिवीं कुट्टयन् शीघ्रं शीघ्रं व्रजति, ईर्यासमिति न साधयति । पुनरभीक्ष्णं वारंवारं प्रमत्तः प्रमादी सर्वाभिः समितिभिर्हीनः स्यात्, अप्रमत्तो न भवति । पुनर्य उल्लङ्घनः, उल्लङ्घयत्यज्ञानीनामथवा बालानाम् हास्याद्यविनयकर्तॄणांभापयन् स्वकीयमाचारमतिक्रामयतीत्युल्लङ्घनः । पुनर्यश्चण्डः क्रोधाध्मातचित्तः स्यात्, स पापश्रमण उच्यते ॥ ८ ॥

Loading...

Page Navigation
1 ... 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350