Book Title: Syadwad bhasha Devdharmpariksha Adhyatmopnishad Adhyatmikmatpariksha Yatilakshansamucchay
Author(s): Manvijayji, Yashovijay Upadhyay,
Publisher: Jinshasan Aradhana Trust
View full book text ________________
विपरीतेककोटिनिष्टंकनं विपर्ययः, यथा शुक्तिकायामिदं रजतामिति । किमित्यालोचनमात्रमनध्यवसायो, यथा गच्छत्तृणस्पर्शज्ञानमिति । स्वोन्मुखतया प्रतिभासनं स्वस्य व्यवसायोऽर्थस्येव तदुन्मुखतया घटमहमात्मना जानामीति कर्मवत् कर्तृकरणक्रियाप्रतीतेः । यथार्थाभिमुख्येन प्रकाशनमर्थव्यवसायो ज्ञानस्य । तथा स्वाभिमुख्येन प्रकाशनं स्वव्यवसायोऽपि तस्येति । को वा तत्सतिभासितमर्थमध्यक्षामिच्छन् तदेव तथा नेच्छन्प्रदीपवत् । यत्तु योगेरुक्तं । समुत्पन्नं हि ज्ञानमेकात्मसमवेतानन्तरसमयसमुत्पदिष्णुमानसप्रत्यक्षेणैव लक्ष्यते न पुनः स्वेनेति । तदसत् । परापरज्ञानोत्पादपरंपरायामेवात्मनो व्यापारादविषयान्तरसञ्चारादिति ।
तत्प्रामाण्यं स्वतः परतश्च । ज्ञानस्य प्रमेयाव्यभिचारित्वं प्रामाण्य । तदितरत्त्व प्रामाण्यमिति । तदुभयमुत्पत्तौ परत एव ज्ञप्तौ तु स्वतः परतश्चेति ज्ञानस्य हि प्रामाण्यमप्रामाण्यं च द्वितयमपि ज्ञानकारणगतगुणदोषरूपं परमपेक्ष्योत्पद्यते। निश्चीयते त्वभ्यासदशायां स्वतोऽनभ्यासदशायां तु परत इति। तत्र ज्ञानस्याभ्यासदशायां प्रमेयाऽव्यभिचारि तदितरचास्तीतिप्रामाण्याप्रामाण्यनिश्चयः संवादकबाधकज्ञानमनपेक्ष्य प्रादुर्भवन् स्वतो भवतीत्यभिधीयते। अनभ्यासदशायां तु तदपेक्ष्य जायमानोऽसौ परत | इति वस्तुगतिः । | अत्र मीमांसका वदन्ति । स्वत एव सर्वथा प्रमाणानां प्रामाण्यं । तथाहि । प्रामाण्योत्पत्तौ प्रगुणा गुणाः प्रत्यक्षेणानुमानेन । वा मीयेरन् । यदि प्रत्यक्षेण तत्किमिन्द्रियेण वाऽतीन्द्रियेण वा, नेन्द्रियेणाऽतीन्द्रियाधिकरणत्वेन तेषां तद्धर(वह)णायोग्यत्वाचाप्यती द्रियेण तस्य चारुविचाराभावाद । अनुमानेन ते निणीयन्ते इति चेत्कुतस्तत्र नियमनिर्णयः स्थान प्रत्यक्षाद् गुणेषु तत्मवृत्ते परास्तत्वान्नाप्यनुमानाचत एव निश्चितावितरेतराश्रयस्य, तदन्तरात्पुनरनवस्थायाः प्रसक्तेः ततो न गुणास्सन्ति केचिदितिस्व
HINI Jain Education international
For Personal & Private Use Only
ww.jainelibrary.org
Loading... Page Navigation 1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138