Book Title: Syadwad bhasha Devdharmpariksha Adhyatmopnishad Adhyatmikmatpariksha Yatilakshansamucchay
Author(s): Manvijayji, Yashovijay Upadhyay, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 17
________________ भुभवि.क. रूपावस्थभ्य एव कारणेभ्यो जायमानं प्रामाण्यं कथमुत्पत्तौ परतः स्यादिति । १॥ निश्चयस्तु तस्य परतः कारणगुणज्ञानाद् स्याद्वादमा. बाकाभावज्ञानात्संवादिज्ञानाद्वा स्यात्तत्र प्राच्यं प्रकारं पागेव प्रक्षिप्तवन्तो गुणग्रहणसमर्थप्रमाणपराकरणाद् । द्वितीये तु तात्कालिकस्य कालान्तरभाविनो वा बाधकस्याभावज्ञानं प्रामाण्यनिश्चायकं स्यात्, पौरस्त्यं तावत् कूटहाटकनिष्टकने स्पष्टमस्त्येव, द्वितीयं तु न चर्मचक्षुषां सम्भवति । २॥ संवादिज्ञानं तु सहकारिरूपं सत्तनिश्चयं विरचयेद्, ग्राहकं वा भवेन्नाद्यभेदो भिन्नकालत्वेन तस्य सहकारित्वासंभवाद्, द्वितीयपक्षे तु तस्यैव ग्राहक सत्तद्विषयस्य विषयान्तरस्य वा ? नाद्यः प्रवर्तकज्ञानस्य दूरनष्टत्वेन ग्राह्यत्वायोगाद्, द्वितीये त्वेकसन्तानं भिन्नसन्तानं वा प्रामाण्यं स्यात्पक्षद्वयेऽपि तैमिरिकावलोक्यमानचन्द्रमण्डलद्यदर्शिदर्शनेन व्यभिचारस्तद्धि चैत्रस्य पुनः पुनर्मित्रस्य चोत्पद्यत एव ३॥ तृतीये पुनरर्थक्रियाज्ञानमन्यद्वा तद्वा (द् ) भवेन्नाग्रिमं प्रवर्तकस्य प्रामाण्यानिश्चये प्रवृत्त्यभावेनार्थक्रियाया एवाभावादन्यदपि विज्ञान-2 मेकसन्तानं भिन्नसन्तानं वा द्वयमपि चैतदेकजातीयं भिन्नजातीयं वा चतुष्टयमपि चैतद् व्यभिचारदुःसञ्चरं तथाहि एकसन्तानं भिन्नसन्तानं चैकजातीयमपि तरङ्गिणीतोयज्ञानं भिन्नजातीयं च स्तंभकुंभादिज्ञानं कूपपानीयज्ञानस्य न संवादकमिति न ज्ञप्तावपि प्रामाण्य परतः।३। प्रामाण्यं तूत्पत्तौ दोषापेक्षत्वाद् ज्ञप्तौ तु बाधकापेक्षत्वात्परत एवेति ॥ अत्र ब्रूमः।। यत्तावद्गुणः प्रत्यक्षेणानुमानेन वा मीयेरनित्याकायुक्तं तदखिलं दोषेष्वपि वक्तुं पार्यते । अथ प्रत्यक्षेणैव चक्षुरादिस्थान् दोषान् निश्चिक्यिरे लोकाः किं नेमल्यादीन् गुणानपि न । अथ तिमिरादिदोषाभावमात्रमेव नैर्मल्यादि नतु गुणरूपमिति कथं प्रत्यक्षेण गुणनिश्चयः स्यादेवं तर्हि नैर्मल्यादिगुणाभावमात्रमेव तिमिरादि नतु दोषरूपमिति विपर्ययकल्पना किं न स्यादिति ॥ १ । यच्चावाचि निश्चयस्तु तस्य परत इत्यादि । तत्र संवादिज्ञानादिति ब्रूमः । कारणगुणज्ञानबाधकामावज्ञानयोरपि च संवादज्ञानरूपत्वं प्रतिपद्यामहे । अथ बाधकादेवापामाण्यनिर्णयो न पुनर्ज्ञाननिर्णायकादेवं तर्हि संवा कायमपि चैतदेकजातीय भिस्तंभकुंभादिज्ञानं कूपपानमा यत्तावद्गुणः प्रत्यक्षणायामान गुणानपि Jain Education abonal For Personal & Private Use Only IDATinelibrary.org

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138