Book Title: Syadwad bhasha Devdharmpariksha Adhyatmopnishad Adhyatmikmatpariksha Yatilakshansamucchay
Author(s): Manvijayji, Yashovijay Upadhyay, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 23
________________ शुभवि. कृ. रश्च । तत्र लौकिको जनकादिर्लोकोत्तरस्तु तीर्थकरादिः। सहजसामर्थ्यसङ्केताभ्यामर्थबोध (निबंध)नं शब्दः। अकारादिः स्यादामा. पोद्गलिको वर्ण इति । तस्य विषयः सामान्यविशेषाद्यनेकात्मकं वस्तु । अनुवृत्तव्यावृत्तप्रत्ययगोचरत्वात्पूर्वोनराकारपरिहारावाप्तिस्थितिलक्षणपरिणामनार्थक्रियोपपत्तेश्च ॥ तस्य प्रमाणस्य विसीयन्ते निवध्यन्ते विषयिणोऽस्मिन्निति विषयो गोचरः परिच्छेद्यमितियावत् । सामान्यविशेषां वक्ष्यमाणलक्षणावादिर्यस्य सदसदायनेकान्तस्य तत्तदात्मकं तत्स्वरूपं वस्त्विति । सामान्यं द्वेधा तिर्यगूर्द्धतादिभेदात् । सदृशपरिणामस्तिर्यग् खण्डमुद्गादिगोत्ववत् । तत्र प्रतिव्यक्ति तुल्या परिणतिस्तियक्सामान्यं शबलाशावलेयादिपिण्डेषु गोत्वं यथेति । परापरविवर्त्तव्यापिद्रव्यमूर्द्धता, मृदिव स्थासादिषु, पूर्वापरपरिणामसाधारणद्रव्यमूर्द्धतासामान्यं । कटककङ्कणाद्यनुगामिकाञ्चनवदिति । विशेषश्च देधा पर्यायव्यतिरेकभेदात् । एकस्मिन् द्रव्ये क्रमभाविनः पयोयाः, आत्मनि हर्षविषादादिवदिति । विसदृशपरिणामो व्यतिरेको गोमहिपादिवदिति । अज्ञाननिवृत्तिर्हानोपादानोपेक्षाश्च फलम्। यत्प्रमाणेन साध्यते तदस्य फलं तद् द्विविधमानंतर्येण पारम्पर्येण च । तत्रानन्तर्येण सर्वप्रमाणानामज्ञाननिवृत्तिः । पारम्पर्येण हानोपादानोपक्षाबुद्धयश्च फलम् । तत्प्रमाणाद भिन्नमभिन्नं च, प्रमाणफलत्वान्यथानुपपत्तेः। तस्यकममातृतादात्म्येन प्रमाणादर्भदव्यवस्थितः । प्रमाणतया परिणतस्यैवात्मनः फलतया परिणतिप्रतीतेः, यः प्रमिमीते स एव निवृत्ताज्ञानो जहात्याददात्युपेक्षते चेति प्रतीतेः । साध्यसाधनभावेन प्रमाणफलयोः प्रतीयमानत्वात, कर्त्ता हि साधकः स्वतन्त्रत्वात् क्रिया तु.साध्या कर्तृनिर्वय॑त्वादिति ।। Jain Educati mational For Personal & Private Use Only ONainelibrary.org

Loading...

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138