Book Title: Syadwad bhasha Devdharmpariksha Adhyatmopnishad Adhyatmikmatpariksha Yatilakshansamucchay
Author(s): Manvijayji, Yashovijay Upadhyay, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 39
________________ शुभवि.कृ. ॥१३॥ तन्निरोधःसंवरः । तेषां मिथ्यात्वाविरतिकषाययोगानामासवाणां सम्यग्दर्शनविरतिप्रमादपरिहारक्षमादिगुप्तित्रयधर्मानुप्रेक्षादिभिनिरोधो % स्याद्वादम. निवारणं स्थगनं संवरः । पर्यायकथनेन व्याख्या । आत्मनः कोपादानहेतुभूतपरिणामाभावः संवर इत्यभिप्रायः । स च देशसर्वभेदाद् द्वेषा, तत्र बादरमूक्ष्मयोगनिरोधकाले सर्वसंवरः,शेषकाले सम्यक्त्वप्रतिपत्तरारभ्य देशसंवरः६। जीवस्य कर्मणा अन्योन्यानुगमात्मा संबन्धो बन्धः । तत्र बन्धनं बन्धः परस्पराश्लेपो जीवप्रदेशपुढलानां क्षीरनीरवत् । अथवा बध्यते येनात्मा पारतन्त्र्यमापाद्यते ज्ञानावरणादिना सबन्धः पुद्गलपरिणामः ७ । बद्धस्य कर्मणः शाटो निर्जरा । वद्धस्य जीवेन सम्बद्धस्य कर्मणो ज्ञानावरणादेःशाटः शाटनं द्वादशविधन तपसा विचटनं सा निर्जरा, सा च द्विविधा सकामाऽकामभेदात् तत्राद्या चारित्रिणां दुष्करतपश्चरणकायो | सर्गकरणद्वाविंशातपरीपहपरीपहणपराणां लोचादिकायक्लेशकारिणामष्टादशशीलाङ्गरथधारिणां बाह्याभ्यन्तरसर्वपरिग्रहपरिहारिणां निष्पतिकर्म-|| शरीरिणां भवति।द्वितीया त्वन्यशरीरिणां तीव्रतीव्रतरशारीरमानसानेकदुम्सहदुःखशतसहस्रसहनतो भवतिभा देहादरात्यन्तिको वियो-11 गो मोक्षः । देहादेःशरीरपञ्चकेन्द्रियायुरादिबाह्यमाणपुण्यापुण्यवर्णगन्धरसस्पर्शपुनर्जन्मग्रहणवेदत्रयकषायादिसङ्गाज्ञानासिद्धत्वादेरात्य कान्तिको विरहः पुनर्मोक्ष इष्यते । यो हि शश्वद्भवति न पुनः कदाचिन्न भवतिस आत्यन्तिकोऽत्र परः पाह-ननु भवतु देहस्यात्यन्तिको वियोगस्तस्य : सादित्वात्परं रागादिभिः सहात्यन्तिको वियोगोऽसंभवी प्रमाणवाधनात्प्रमाणं चेदं,यदनादिमत् न तद्विनाशमाविशति यथाकाशम् अनादिम 16॥१३॥ न्तश्च रागादय इति ।उच्यते।यद्यपि रागादयो दोषा जन्तोरनादिमन्तस्तथापि कस्यचिद्यथावस्थितस्त्रीशरीरादिवस्तुतत्त्वावगमेन तेषां रागादीनां प्रतिपक्षभावनातः प्रतिक्षणमपचयो दृश्यते ततः संभाव्यते विशिष्टकालादिसामग्रीसद्भावे भावनाप्रकर्षतो निर्मूलमपि क्षयः, निर्मूलक्षयानभ्युप Jain Educatie lational For Personal & Private Use Only dinelibrary.org

Loading...

Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138