________________
शुभवि.कृ.
॥१३॥
तन्निरोधःसंवरः । तेषां मिथ्यात्वाविरतिकषाययोगानामासवाणां सम्यग्दर्शनविरतिप्रमादपरिहारक्षमादिगुप्तित्रयधर्मानुप्रेक्षादिभिनिरोधो % स्याद्वादम. निवारणं स्थगनं संवरः । पर्यायकथनेन व्याख्या । आत्मनः कोपादानहेतुभूतपरिणामाभावः संवर इत्यभिप्रायः । स च देशसर्वभेदाद् द्वेषा, तत्र बादरमूक्ष्मयोगनिरोधकाले सर्वसंवरः,शेषकाले सम्यक्त्वप्रतिपत्तरारभ्य देशसंवरः६। जीवस्य कर्मणा अन्योन्यानुगमात्मा संबन्धो बन्धः । तत्र बन्धनं बन्धः परस्पराश्लेपो जीवप्रदेशपुढलानां क्षीरनीरवत् । अथवा बध्यते येनात्मा पारतन्त्र्यमापाद्यते ज्ञानावरणादिना सबन्धः पुद्गलपरिणामः ७ । बद्धस्य कर्मणः शाटो निर्जरा । वद्धस्य जीवेन सम्बद्धस्य कर्मणो ज्ञानावरणादेःशाटः शाटनं द्वादशविधन तपसा विचटनं सा निर्जरा, सा च द्विविधा सकामाऽकामभेदात् तत्राद्या चारित्रिणां दुष्करतपश्चरणकायो | सर्गकरणद्वाविंशातपरीपहपरीपहणपराणां लोचादिकायक्लेशकारिणामष्टादशशीलाङ्गरथधारिणां बाह्याभ्यन्तरसर्वपरिग्रहपरिहारिणां निष्पतिकर्म-|| शरीरिणां भवति।द्वितीया त्वन्यशरीरिणां तीव्रतीव्रतरशारीरमानसानेकदुम्सहदुःखशतसहस्रसहनतो भवतिभा देहादरात्यन्तिको वियो-11
गो मोक्षः । देहादेःशरीरपञ्चकेन्द्रियायुरादिबाह्यमाणपुण्यापुण्यवर्णगन्धरसस्पर्शपुनर्जन्मग्रहणवेदत्रयकषायादिसङ्गाज्ञानासिद्धत्वादेरात्य कान्तिको विरहः पुनर्मोक्ष इष्यते । यो हि शश्वद्भवति न पुनः कदाचिन्न भवतिस आत्यन्तिकोऽत्र परः पाह-ननु भवतु देहस्यात्यन्तिको वियोगस्तस्य : सादित्वात्परं रागादिभिः सहात्यन्तिको वियोगोऽसंभवी प्रमाणवाधनात्प्रमाणं चेदं,यदनादिमत् न तद्विनाशमाविशति यथाकाशम् अनादिम
16॥१३॥ न्तश्च रागादय इति ।उच्यते।यद्यपि रागादयो दोषा जन्तोरनादिमन्तस्तथापि कस्यचिद्यथावस्थितस्त्रीशरीरादिवस्तुतत्त्वावगमेन तेषां रागादीनां प्रतिपक्षभावनातः प्रतिक्षणमपचयो दृश्यते ततः संभाव्यते विशिष्टकालादिसामग्रीसद्भावे भावनाप्रकर्षतो निर्मूलमपि क्षयः, निर्मूलक्षयानभ्युप
Jain Educatie
lational
For Personal & Private Use Only
dinelibrary.org