________________
स्निग्धरूक्षशीतोष्णाश्चत्वार एवाणुषु संभवन्ति स्कन्धेष्वष्टावपि यथासंभवं वक्तव्याः । रसाः तिक्तकटुकषायाम्लमधुराः लवणो मधुरान्तर्गत इत्येके संसर्गज इत्यपरे। गन्धौ सुरभ्यसुरभी । कृष्णादयो वर्णाः । तद्वन्तः पुद्रला इति । न केवलं पुद्गलानां स्पर्शादयो धर्मः शब्दादयश्चेति दर्श्यन्ते । शब्दबन्धसोक्षम्यस्थौल्यसंस्थानभेदतमश्छायातपोद्योतवन्तः पुद्गलाः ।। अत्र पुदलपरिणामाविष्कारी मतुप्प्रत्ययो नित्ययोगार्थ विहितः । तत्र शब्दो ध्वनिः १ । बन्धः परस्पराश्लेषलक्षणः प्रयोगविस्रसादिजानितः। औदारिकादिशरीरजतुकाष्ठादिश्लेषक्त परमाणुसंयोगजवद्वेति २। सौक्ष्यं सूक्ष्मता ३। स्थौल्यं स्थूलता ४ । संस्थानमाकृतिः ५। भेदः खण्डशो भवनं ६ । तमश्छायादयः प्रतीताः सर्वएवैते स्पर्शादयः शब्दादयश्च पुद्गलेप्वेव भवन्तीति। पुद्गला द्वेधा परमाणवः स्कन्धाश्च । तत्र परमाणोर्लक्षणमिदं "कारणमेव तदन्त्यं सूक्ष्मो नित्यश्च भवति परमाणुः। एकरसवर्णगन्धो द्विस्पर्शः कार्यलिङ्गश्च । १।" एते धर्माधर्माका
शकालपुद्गला जीवैः सह षड् द्रव्याणि । एष्वाधानि चत्वार्येकद्रव्याणि जीवाः पुद्गलाश्चानेकद्रव्याणि, पुद्गलरहितानि तानि पञ्चामूर्तानि । कापुदलास्तु मूर्ता एवेति २ । सत्कर्मपुद्गलाः पुण्यं । सन्तस्तीर्थकरत्वस्वर्गादिफलनिर्वर्तकत्वात्प्रशस्तकर्मणां पुद्गला जीवसम्बद्धाः कर्म-13
वर्गणाः पुण्यमित्यर्थः ३। तद्विरीतंत पापं । तर्भिन्नक्रमे तस्मात्पुण्याविपरीतं नरकादिफलनिवर्तकत्वादप्रशस्ता जीवसंबद्धाः कर्मपुद्गलाः पापमित्यर्थः ४ । बन्धस्य मिथ्यात्वाऽविरतिकषाययोगलक्षणहेतव आस्रवः । असद्देवगुरुधर्मेषु सद्देवादिबुद्धिर्मिथ्यात्वं। माहिंसापनिवृत्तिरविरतिः। प्रमादो मद्यविषयादिः । कषायाः क्रोधादयः । योगा मनोवाकायव्यापाराः । बन्धस्य ज्ञानावरणीयादिकमबन्धस्य बादतषः कारणानि आस्रवति कर्म येभ्यः स आस्रवस्ततो मिथ्यात्वादिविषया मनोवाकायव्यापारा एवाशुभकर्मबन्धहेतुत्वादास्रव इत्यर्थः५।
Jain Educatie
- Wational
For Personal & Private Use Only
Finelibrary.org