________________
शुभवि.कृ.
स्याद्वादमा.
॥१२॥
नावस्थास्वपि कालः काल इत्यविशेषश्रुतेः । यथा ोकः परमाणुः पर्यायैरनित्योपपि द्रव्यत्वेन सदा समेव न कदाचिदसत्त्वं भजते तथैकः समयोऽपीति । तथा 'दवपरियहरूवो जो सो कालो हवेइ ववहारो । परिणामाइलरक्खो वणलरक्खो अ परमहो। १।' जीवपुद्रलपरिवों नवपुराणादिस्तेन लक्ष्यः द्रव्यपर्यायरूपो व्यवहारकालः । स्वोपादानरूपेण स्वयमेव परिणममानानां भावानां कुम्भकारचक्राधस्तनशिलावत् शीतकालाघ्मायनेऽग्निवत् पदार्थपरिणमने य(णतेयोत्सहकारित्वं सा वर्त्तना सैव लक्षणं यस्य स कालाणुद्रव्यरूपो निश्चयकालः ।। ततोऽन्यः कालाणुद्रव्यरूपनिश्चयकालो नास्ति । अत्रोत्तरम् । उत्पन्नध्वंसित्वात्समयः पर्यायः, पर्यायो द्रव्यं विना न भवति । यदुतम् “ द्रव्यं पर्यायवियुतं पर्याया द्रव्यवर्जिताः । क कदा केनचिरिक वा दृष्टा मानेन केन वा । १।" ततः समयरूपपर्यायोपादानभूतेन कालाणुरूपनिश्चयकालद्रव्येण भाव्यमेव यथा इन्धनाग्निसहकारिकारणोत्पन्नौदनपर्यायस्य तण्डुलोपादानकारणवत् कुम्भकारचक्रचीवरादिबहिरङ्गनिमित्तोत्पन्नस्य मृन्मयघटपर्यायस्य मृत्पिण्डोपादानं नरकादिपर्यायस्य जीवोपादान। तदपि कस्मादुपादानकारणसदृशं कार्य भवतीतिवचनात् । अथ मतं समयादिकालपर्यायाणां कालद्रव्यमुपादानं न भवति किंतु समयोत्पत्तौ मन्दगतिपरिणतपुद्गलपरमाणुः, निमेषोत्पत्ती/ नयनपुटविघटन, घटिकाकालोत्पत्तौ घटिकासामग्रीभूतजलभृतभाजनपुरुषहस्तादिव्यापारः,दिवसादौ दिनकरबिम्बमुपादानादिकरणं। उपादानत्वं च पूर्वाकारपरित्यागाजहद्वृत्तोत्तराकारोपादानत्वं, नैवं,उपादानकारणसदृशं कार्यमिति वचनात्कालाणुद्रव्यमेवेति।४। पुद्गलाः स्पर्शरसगन्धवर्णवन्तः । अत्र स्पर्शग्रहणमादौ स्पर्श सति रसादिसद्भावज्ञापनार्थ, ततोऽवादीनि चतुर्गुणानि स्पार्शित्वात् पृथिवीवत्तथा मनः स्पर्शादिमत् असर्वगतद्रव्यत्वात् पार्थिवाणुवदितिप्रयोगौ सिद्धौ । तत्र स्पर्श मृदुकठिनगुरुलघुशीतोष्णस्निग्धरूक्षाः । अत्र च
Jain Educatio!!
For Personal & Private Use Only
Linelibrary.org