Book Title: Syadwad bhasha Devdharmpariksha Adhyatmopnishad Adhyatmikmatpariksha Yatilakshansamucchay
Author(s): Manvijayji, Yashovijay Upadhyay,
Publisher: Jinshasan Aradhana Trust
View full book text ________________
Jain Educatio
गमेऽपचयस्याप्यसिद्धेः यथा हि शीतस्पर्शसंपाद्या रोमहर्षादयः शीतप्रतिपक्षस्य वद्वेर्मन्दतायां मन्दा उपलब्धा उत्कर्षे च निरन्वयविनाशिनः । एवमन्यत्रापि मन्दतासद्भावे निरन्वयविनाशोऽवश्यमेष्टव्यः । अथ यथा ज्ञानावरणीयकर्मोदये ज्ञानस्य मन्दता भवति तत्प्रकर्षे च ज्ञानस्य न निरन्वयो विनाशः एवं प्रतिपक्षभावनोत्कर्षेऽपि न रागादीनामत्यन्तमुच्छेदो भविष्यतीति । तदयुक्तम् । द्विविधं हि वाध्यं सहभूस्वभावं | सहकारिसंपाद्यस्वभावं च । तत्र यत्सहभूस्वभावं तन्न बाधकोत्कर्षे कदाचिदपि निरन्वयं विनाशमाविशति ज्ञानं चात्मनः सहभूस्वभावम् | आत्मा च परिणामिनित्यस्ततोऽत्यन्तप्रकर्षवत्यपि ज्ञानावरणीयकर्मोदये ज्ञानस्य न निरन्वयो विनाशः । रागादयस्तु लोभादिकर्मविपाको - दयसंपादितसत्ताकाः ततः कर्मणो निर्मूलमपगमे तेऽपि निर्मूलमंपगच्छन्ति । प्रयोगश्चात्र । ये सहकारिसंपाद्या यदुपधानादपकर्षिणः ते तदस्यन्तदृद्धौ निरन्वयविनाशधर्माणः यथा रोमहर्षादयो वह्निवृद्धौ । भावनोपधानादपकर्षिणश्च सहकारिकर्मसंपाद्या रागादयः ९ । इति प्रमाणनयतत्त्वं व्यवस्थाप्य वस्तुनिर्णयार्थ वादमाह । विरुद्धयोर्धर्मयोरेकधर्मव्यवच्छेदेन स्वीकृततदन्यधर्मव्यवस्थापनार्थ साधनदूषणवचनं वादः | विरुद्धयोरेकत्र प्रमाणेनानुफ्पद्यमानोपलम्भयोर्द्धर्मयोर्मध्यादिति । तत्प्रारम्भकश्चात्र जिगीषुस्तत्त्वनिर्णिनीषुश्च । तत्र जिगीषुः प्रसह्य प्रथमं च वादमारभते प्रथममेव च तत्त्वनिर्णिनीषुरिति द्वावपि प्रारम्भकौ भवतः । तत्र स्वीकृत धर्मव्यवस्थापनार्थ साधनदूपणाभ्यां परं पराजेतुमिच्छुर्जिगीषुः । स्त्रीकृतो धर्मः शब्दादेः कथंचिन्नित्यत्वादिर्यस्तस्य व्यवस्थापनार्थ यत्सामर्थ्यात्तस्यैव साधनं परस्य च दूषणं ताभ्यां कृत्वा परं पराजेतुमिच्छुर्जिगीषुरित्यर्थः । तथैव तत्त्वं प्रतिष्ठाप | यिषुस्तत्त्वनिर्णिनीषुः । तथैव स्वीकृतधर्मव्यवस्थापनार्थ साधनदूषणाभ्यां शब्दादेः कथंचिन्नित्यत्वादिरूपं तत्त्वं प्रतिष्ठापयितुमि
For Personal & Private Use Only
inelibrary.org
Loading... Page Navigation 1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138