Book Title: Syadwad bhasha Devdharmpariksha Adhyatmopnishad Adhyatmikmatpariksha Yatilakshansamucchay
Author(s): Manvijayji, Yashovijay Upadhyay, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 37
________________ शुभवि.कृ. स्याद्वादमा. ॥१२॥ नावस्थास्वपि कालः काल इत्यविशेषश्रुतेः । यथा ोकः परमाणुः पर्यायैरनित्योपपि द्रव्यत्वेन सदा समेव न कदाचिदसत्त्वं भजते तथैकः समयोऽपीति । तथा 'दवपरियहरूवो जो सो कालो हवेइ ववहारो । परिणामाइलरक्खो वणलरक्खो अ परमहो। १।' जीवपुद्रलपरिवों नवपुराणादिस्तेन लक्ष्यः द्रव्यपर्यायरूपो व्यवहारकालः । स्वोपादानरूपेण स्वयमेव परिणममानानां भावानां कुम्भकारचक्राधस्तनशिलावत् शीतकालाघ्मायनेऽग्निवत् पदार्थपरिणमने य(णतेयोत्सहकारित्वं सा वर्त्तना सैव लक्षणं यस्य स कालाणुद्रव्यरूपो निश्चयकालः ।। ततोऽन्यः कालाणुद्रव्यरूपनिश्चयकालो नास्ति । अत्रोत्तरम् । उत्पन्नध्वंसित्वात्समयः पर्यायः, पर्यायो द्रव्यं विना न भवति । यदुतम् “ द्रव्यं पर्यायवियुतं पर्याया द्रव्यवर्जिताः । क कदा केनचिरिक वा दृष्टा मानेन केन वा । १।" ततः समयरूपपर्यायोपादानभूतेन कालाणुरूपनिश्चयकालद्रव्येण भाव्यमेव यथा इन्धनाग्निसहकारिकारणोत्पन्नौदनपर्यायस्य तण्डुलोपादानकारणवत् कुम्भकारचक्रचीवरादिबहिरङ्गनिमित्तोत्पन्नस्य मृन्मयघटपर्यायस्य मृत्पिण्डोपादानं नरकादिपर्यायस्य जीवोपादान। तदपि कस्मादुपादानकारणसदृशं कार्य भवतीतिवचनात् । अथ मतं समयादिकालपर्यायाणां कालद्रव्यमुपादानं न भवति किंतु समयोत्पत्तौ मन्दगतिपरिणतपुद्गलपरमाणुः, निमेषोत्पत्ती/ नयनपुटविघटन, घटिकाकालोत्पत्तौ घटिकासामग्रीभूतजलभृतभाजनपुरुषहस्तादिव्यापारः,दिवसादौ दिनकरबिम्बमुपादानादिकरणं। उपादानत्वं च पूर्वाकारपरित्यागाजहद्वृत्तोत्तराकारोपादानत्वं, नैवं,उपादानकारणसदृशं कार्यमिति वचनात्कालाणुद्रव्यमेवेति।४। पुद्गलाः स्पर्शरसगन्धवर्णवन्तः । अत्र स्पर्शग्रहणमादौ स्पर्श सति रसादिसद्भावज्ञापनार्थ, ततोऽवादीनि चतुर्गुणानि स्पार्शित्वात् पृथिवीवत्तथा मनः स्पर्शादिमत् असर्वगतद्रव्यत्वात् पार्थिवाणुवदितिप्रयोगौ सिद्धौ । तत्र स्पर्श मृदुकठिनगुरुलघुशीतोष्णस्निग्धरूक्षाः । अत्र च Jain Educatio!! For Personal & Private Use Only Linelibrary.org

Loading...

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138