________________
शुभवि. कृ. रश्च । तत्र लौकिको जनकादिर्लोकोत्तरस्तु तीर्थकरादिः। सहजसामर्थ्यसङ्केताभ्यामर्थबोध (निबंध)नं शब्दः। अकारादिः स्यादामा.
पोद्गलिको वर्ण इति । तस्य विषयः सामान्यविशेषाद्यनेकात्मकं वस्तु । अनुवृत्तव्यावृत्तप्रत्ययगोचरत्वात्पूर्वोनराकारपरिहारावाप्तिस्थितिलक्षणपरिणामनार्थक्रियोपपत्तेश्च ॥ तस्य प्रमाणस्य विसीयन्ते निवध्यन्ते विषयिणोऽस्मिन्निति विषयो गोचरः परिच्छेद्यमितियावत् । सामान्यविशेषां वक्ष्यमाणलक्षणावादिर्यस्य सदसदायनेकान्तस्य तत्तदात्मकं तत्स्वरूपं वस्त्विति । सामान्यं द्वेधा तिर्यगूर्द्धतादिभेदात् । सदृशपरिणामस्तिर्यग् खण्डमुद्गादिगोत्ववत् । तत्र प्रतिव्यक्ति तुल्या परिणतिस्तियक्सामान्यं शबलाशावलेयादिपिण्डेषु गोत्वं यथेति । परापरविवर्त्तव्यापिद्रव्यमूर्द्धता, मृदिव स्थासादिषु, पूर्वापरपरिणामसाधारणद्रव्यमूर्द्धतासामान्यं । कटककङ्कणाद्यनुगामिकाञ्चनवदिति । विशेषश्च देधा पर्यायव्यतिरेकभेदात् । एकस्मिन् द्रव्ये क्रमभाविनः पयोयाः, आत्मनि हर्षविषादादिवदिति । विसदृशपरिणामो व्यतिरेको गोमहिपादिवदिति । अज्ञाननिवृत्तिर्हानोपादानोपेक्षाश्च फलम्। यत्प्रमाणेन साध्यते तदस्य फलं तद् द्विविधमानंतर्येण पारम्पर्येण च । तत्रानन्तर्येण सर्वप्रमाणानामज्ञाननिवृत्तिः । पारम्पर्येण हानोपादानोपक्षाबुद्धयश्च फलम् । तत्प्रमाणाद भिन्नमभिन्नं च, प्रमाणफलत्वान्यथानुपपत्तेः। तस्यकममातृतादात्म्येन प्रमाणादर्भदव्यवस्थितः । प्रमाणतया परिणतस्यैवात्मनः फलतया परिणतिप्रतीतेः, यः प्रमिमीते स एव निवृत्ताज्ञानो जहात्याददात्युपेक्षते चेति प्रतीतेः । साध्यसाधनभावेन प्रमाणफलयोः प्रतीयमानत्वात, कर्त्ता हि साधकः स्वतन्त्रत्वात् क्रिया तु.साध्या कर्तृनिर्वय॑त्वादिति ।।
Jain Educati
mational
For Personal & Private Use Only
ONainelibrary.org