________________
Jain Education
अनुपलब्धेरपि द्वैरुप्यमविरुद्धानुपलब्धिर्विरुद्धानुपलब्धिश्व । तत्राविरुद्धानुपलब्धिः प्रतिषेधसिद्धौ सप्तधा स्वभावव्यापककार्यकारण पूर्वोत्तरसहचरानुपलब्धिभेदात् ॥ ततः स्वभावानुपलब्धिः । १ । व्यापकानुपलब्धिः । २ । कार्यानुपलब्धिः । ३ । कारणानुपलब्धिः । ४ । पूर्वचरानुपलब्धि | ५ | रुत्तरचरानुपलब्धिः । ६ । सहचरानुपलब्धिवेति || ७ | उदाहृतिर्यथा नास्त्यत्र भूतले घट उपलब्धिलक्षणप्राप्तत्वे सति अनुपलब्धेः १ । नास्त्यत्र शिंशपा वृक्षानुपलब्धेः २ | नास्त्यत्राम|तिबद्धसामर्थ्याग्निर्धूमानुपलब्धेः ३ । नास्त्यत्र धूमोऽननेः ४ । नोदेष्यति मुहूर्त्तान्ते शकटं कृत्तिकोदयानुपलब्धेः ५ । नोदगाद्भरणिर्मुहर्त्तात्प्राक् कृत्तिकोदयानुपलब्धेः ६ । नास्त्यस्य सम्यग्ज्ञानं सम्यग्दर्शनानुपलब्धेः ७ । इति ॥ विरुद्धानुपलब्धिर्विधौ पञ्चधा | विरुद्ध कार्यकारणस्वभावव्यापकसहचरानुपलंभभेदात् ॥ विरुद्धकार्यानुपलब्धिः । १ । विरुद्धकारणानुपलब्धिः || २ | विरुद्धस्वभावानुपलब्धिः । ३ । विरुद्धव्यापकानुपलब्धिः । ४ । विरुद्धसहचरानुपलब्धिवेति । ५ । उदाहृतिर्यथाऽस्मिन् प्राणिनि व्याधिविशेषोऽस्ति निरामयचेष्टानुपलब्धेः १ । अस्त्यत्र शरीरिणि दुःखमिष्टसंयोगाभावात् २ । अनेकान्तात्मकं वस्तु एकान्तस्वरूपानुपलब्धेः ३ । अस्त्यत्र छाया औष्ण्यानुपलब्धेः ४ । अस्त्यस्य मिथ्याज्ञानं सम्यग्दर्शनानुपलब्धेः ५ इति । परंपरया संभवत्साधनमत्रैवाअन्तर्भावनीयं । अभूदत्र चक्रे शिवकः स्थासात् कार्यकार्यमविरुद्धकार्योपलब्धौ यथा । नास्त्यत्र मृगक्रीडनं मृगारिशब्दात् कारणविरुद्धका - र्योपलब्धौ यथा २ । इति । आप्तवचनाज्जातमर्थज्ञानमागमः । उपचारादाप्तवचनं च । यथा अस्त्यत्र निधिः । सन्ति भेर्वादयः । २ । अभिधेयं वस्तु यथावस्थितं यो जानीते यथाज्ञानं चाभिधत्ते स आप्तः । स च द्वेधा लौकिको लोकोत्त
Iational
For Personal & Private Use Only
anelibrary.org