SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ |प्रमाणस्वरूपादेरन्यत्तदाभासम् । अज्ञानात्मकानात्मप्रकाशकृस्वमात्रावभासकनिर्विकल्पसमारोपाः | प्रमाणस्य स्वरूपाभासाः । यथा संनिकर्षाद्यस्वसंविदितपरानवभास कज्ञानदर्शनविपर्ययसंशयानध्यवसायाः प्रमाणाभासाः यथा द्विचन्द्रादिज्ञानं, विभङ्गश्च प्रत्यक्षाभासम् । अतस्मिंस्तदिति ज्ञानं स्मरणाभासम् । यज्ञदते स देवदत्तो यथा । असदृशे तदेवेदं तस्मिंश्व तत्सदृशमित्यादिज्ञानं प्रत्यभिज्ञानाभासं यमलज्ञानवत् । तुल्ये पदार्थे स एवायमित्येकस्पिश्च तेन तुल्यमित्यादिज्ञानं प्रत्यभिज्ञानाभासं युगलजातज्ञानवदिति । असंबन्धे तद्ज्ञानं तर्काभासं । यावांस्तत्पुत्रः स श्याम इति । असत्यामपि व्याप्तौ तदाभासस्तर्काभासः, व्याप्तिर - विनाभावो । यथा स श्यामो मैत्रतनयत्वादित्यत्र यावान्मैत्रीतनयः स श्याम इति । अनुमाना भासमिदं - पक्षाभासादिसमुत्थं ज्ञानमनुमानाभासम् । अनिष्टादिः पक्षाभासः । अनिष्टो मीमांसकस्यानित्यः शब्दः । सिद्धः श्रावणः शब्दः । वाधितः प्रत्यक्षानुमानागमलोकस्वचनैरनुष्णोऽग्निरित्यादिवत् । असिद्धविरुद्धानैकान्तिका हेत्वाभासाः ॥ प्रमाणेनासिद्धान्यथानुपपत्तिरसिद्धः, परिणामी शब्दश्चाक्षुषत्वात् । तत्र यस्य प्रमाणेनासिद्धाऽन्यथानुपपत्तिः सोऽसिद्धः । स द्विविध उभयासिद्धोऽन्यतरासिद्धश्व, | तत्र उभयस्य वादिप्रतवादिसमुदायस्यासिद्ध उभयासिद्धो यथा परिणामी शब्दः चाक्षुषत्वादिति । अन्यतरस्य वादिनः प्रतिवादिनो वाऽसिद्धोऽन्यतरासिद्धो यथा अचेतनास्तरवो विज्ञानेन्द्रियायुर्निरोधलक्षणमरणरहितत्वादिति । विपरीतान्यथानुपपत्तिर्विरुद्धः, अनित्यः पुरुषः प्रत्यभिज्ञानादिमत्त्वात् । साध्यविपर्ययेणैव यस्यान्यथानुपपत्तिरवसीयते स विरुद्धः यदा केनचित्साध्यविपर्ययेणाविनाभूतो हेतुः साध्याविनाभावभ्रान्त्या प्रयुज्यते तदासौ विरुद्धो हेत्वाभासो यथा नित्य एव पुरुषोऽनित्य एव वा प्रत्यभिज्ञा Jain Education femational For Personal & Private Use Only jainelibrary.org
SR No.600196
Book TitleSyadwad bhasha Devdharmpariksha Adhyatmopnishad Adhyatmikmatpariksha Yatilakshansamucchay
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages138
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy